SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे १८ सर्गे ॥२१७॥ भिर्युक्ताऽष्टौ योजनानीति भावना ॥ ६१ ॥ असौ पद्मवेदिकया, परीता काननेन च । सहकारलतेवोच्चैरालवालेन राजते ॥ ६२ ॥ एतस्याश्च शिरोभागे, कमनीयमहीतले । प्राप्नुवन्ति परां प्रीतिं, निर्जराः सुखनिर्भराः ॥ ६३ ॥ मध्येऽत्र सिद्धायतनं, तदेकं क्रोशमायतम् । तथा क्रोशार्द्धविस्तारं देशोनं क्रोशमुन्नतम् ॥ ६४ ॥ अष्टोत्तरशतं तत्र, प्रतिमाः शाश्वतार्हताम् । वैताढ्य चैत्यवत्सर्वं वक्तव्यमिह वर्णनम् ॥ ६५ ॥ अनेके सुरगन्धर्वास्तत्र गायन्ति लीलया । शृण्वन्ति श्रोत्रसुभगं, जिनगीतं सुरेश्वराः ॥ ६६ ॥ जिनाग्रे तत्र नृत्यन्त्यः, कुर्वन्ति त्रिदशाङ्गनाः । मेरुमौलिस्थमरुतां, वंशारूढनटी भ्रमम् ॥ ६७ ॥ किंचायं मन्दरो १ मेरुः २, सुदर्शनः ३ स्वयंप्रभः ४ । मनोरमो ५ गिरिराजो ६, रत्नोच्चय ७ शिलोच्चयो ८ ॥ ६८ ॥ लोकमध्यं ९ लोकनाभिः १०, सूर्यावर्त्ती ११ ऽस्तसंज्ञितः १२ । दिगादि १३ सूर्यावरणा १४ वतंसक १५ नगोत्तमाः १६ ॥ ६९ ॥ एभिः षोडशभिः ख्यातो, नामभिर्भूधरो भुवि । स्पृशन्नभ्रमदभ्रांशुः, कलाभिरिव चन्द्रमाः ॥ ७० ॥ तत्रापि मन्दर इति, मुख्यनामैषु नामसु । मन्दराख्यः मुरो ह्यत्र, स्वामी पत्योपमस्थितिः ॥ ७१ ॥ महर्द्धिको निवसति, ख्यातं तद्योगतो ह्यदः । यद्वेदं शाश्वतं नाम, भरतैरवतादिवत् ॥ ७२ ॥ एवं महाविदेहानां खरूपं लेशतो मया । कीर्त्तितं कीर्त्तिविजयगुरुक्रमकजालिना ॥ ७३ ॥ सततमहतमोक्षं न्यक्षलक्ष्मीनिधानं, जयति जगति वर्ष श्रीविदेहाभिधानम् । अविरहितमनेकैर्देवदेवैर्नृदेवैरतिबलबलदेवैर्वासुदेवैः सदैव ॥ ७४ ॥ (मालिनी ) तत्र तीर्थकरचक्रवर्त्तिनां, वासुदेवबलदेवयोरपि । स्याज्जघन्यपदतश्चतुष्टयं ब्रूमहेऽथ परमप्रकर्षतः ॥ ७५ ॥ ( रथोद्धता ) Jain Educationational For Private & Personal Use Only मेरुचूला २० २५ ॥२१७॥ २८ jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy