SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ISI॥ ४५ ॥ स्थापना । त्रिंशतस्तीर्थराजां तु, युगपन्न जनिर्भवेत् । भरतैरावतविदेहेषु काल विपर्ययात् ॥ ४६॥ युक्तैवोक्ता ततःप्राच्यैरहतां युगपजनिः। उत्कर्षाविंशतेरेव, दशानां च जघन्यतः ॥४७॥ भारतेष्वरावतेषु, कालस्य साम्यतो मिथः । हीनाधिकानां पूर्वोक्तसंख्यातो न जनिर्भवेत् ॥४८॥ पाण्डुकाख्यवनस्यास्य, मध्यभागे सुनिश्चिते। चकास्ति चूलिका मेरोवर्यवैडूर्यरत्नजा॥४९॥ विस्फुरत्पण्डकवनशरावान्तःप्रतिष्ठितः। यवारकस्तम्ब इव, भद्रकृज्जिनजन्मनि ॥५०॥ चत्वारिंशद्योजनानि, तुङ्गत्वेन भवेदसौ । द्वादशैव योजनानि, मूले विष्कम्भतो मता ॥५१॥ मध्ये च योजनान्यष्टौ, चत्वार्युपरि विस्तृता । उदस्तातुच्छगोपुच्छसुस्थसंस्थानशालिनी ॥५२॥ सप्तत्रिंशद्योजनानि, सातिरेकाणि किञ्चन । मूलेऽस्याः परिधिर्मध्ये, साधिका पञ्चविंशतिः ॥५३॥ साधिकानि द्वादशेषत्परिक्षेप उपर्यथ । व्यासानुसारतो भाव्योऽन्यत्रापि परिधिqधैः ॥ ५४॥ अथैतस्यां चूलिकायामुत्क्रान्ते योजनादिके। मूलात्तत्पश्चमलवः, क्षीयते मूलविस्तृतेः॥५५॥ मेरोयथैकादशभिर्योजनोजनं हसेत् । क्षीयते योजनं तद्वत्पञ्चभिर्योजनैरिह ॥५६॥ उत्क्रान्तायां मूलभागाद्यथा योजनविंशती। विंशतः पञ्चमो भागः, स्थाचतुर्योजनात्मकः ॥५७॥ तस्मिंश्च मूलविष्कम्भादपनीते भवेदिह । विष्कम्भो योजनान्यष्टावित्थं सर्वत्र भावना ॥५८॥ यद्वा मौलेरतिक्रान्तमधो यद्योजनादिकम् । विभक्ते पञ्चभिस्तस्मिन् , लब्धे चतुर्भिरन्विते ॥ ५९॥ जायतेऽभीप्सिते स्थाने, विष्कम्भोऽत्र यथोव॑तः । अपक्रान्ती योजनानां, विंशतः स विभाव्यते ॥ ६०॥ विंशतेः पञ्चभिर्भागे, योजनानां चतुष्टयी । लब्धा चतु o202020020201202020.2002020-20200 चो.प्र.३७ Jain Education A n al For Private Personal Use Only Dr.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy