________________
अभिषेकसिंहास
नानि
लोकप्रकाशेसनमनुत्तरम् । सुरेन्द्रैस्तत्र भरतजातो जिनोऽभिषिच्यते ॥ ३१॥ अमुष्या दक्षिणा मुख्या, सन्मुखं भरतं १८ सर्गे यतः। ततस्तत्रत्यसार्वस्य, युक्तमत्राभिषेचनम् ॥ ३२॥ शेषं तु मानसंस्थानसोपानवेदिकादिकम् । सर्वा
सामपि विज्ञेयमविशेषेण पाण्डवत् ॥ ३३ ॥ वर्णतश्चोक्तरूपे द्वे, कुमुदोदरसोदरे । वक्ष्यमाणे पुनः कोकनद॥२१६॥
विद्रुमबन्धुरे ॥ ३४ ॥ अयं तावजम्बूद्वीपप्रज्ञप्तिसूत्रवृत्त्यभिप्रायः, बृहत्क्षेत्रसमाससूत्रवृत्तौ तु सर्वाः श्वेतसुवर्णमय्य उक्ता इति ज्ञेयं । वनपश्चिमपर्यन्ते, शिला रक्तशिलाभिधा । प्रतीच्यां मेरुचूलायास्तपनीयमयी मता ॥ ३५ ॥ पूर्वपश्चिमविस्तीर्णा, सा दक्षिणोत्तरायता। ऋजुताऽस्याः पश्चिमायां, वक्रता चूलिकादिशि ॥ ३६॥ स्यात्प्रतीचीसंमुखायामस्यां सिंहासनद्वयम् । जिनजन्माभिषेकाई, दक्षिणोत्तरयोर्दिशोः ॥ ३७॥ शीतोदोत्तरदिग्भाविपक्ष्मादिविजयाष्टके । संजातोऽहनौत्तराहसिंहासनेऽभिषिच्यते ॥ ३८॥ शीतोदादक्षिणाभाविवप्रादिविजयाष्टके । जातो जिनो दाक्षिणात्यसिंहासनेऽभिषिच्यते ॥३९॥ उदीच्यां मेरुचूलाया, उदीच्यान्ते वनस्य च । रक्तवर्णमयी रक्तकम्बला वर्तते शिला ॥४०॥ दक्षिणोत्तरविस्तीर्णा, सा पूर्वपश्चिमायता । उदगु ऋज्वी चूलिकातो, वक्रा तथोत्तरामुखी ॥४१॥ अस्यां सिंहासनं मध्ये, मणिरत्नमनोहरम् । ऐरावतक्षेत्रजातो, जिनस्तत्राभिषिच्यते ॥४२॥ एवं मेरुगिरावस्मिन्नभिषेकासनानि षट् । अभि
कस्तु युगपच्चतुर्णामथवा द्वयोः॥४३॥ पूर्वापरविदेहेषु, निशीथेऽर्हजनियंदा । भरतैरवतक्षेत्रे, मध्याहा स्यात्तदा यतः ॥ ४४ ॥ शेषेष्वपि व्यवस्थेयं, तुल्या चतुर्पु मेरुषु । सिंहासनान्यतस्त्रिंशद्भवन्ति सर्वसंख्यया
||२१६॥
२८
Jain Educatio
n
al
For Private Personel Use Only
D
ow.jainelibrary.org