SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ अधिज्यचापाकारा या, वक्रता चूलिकादिशि । ऋजुता खखदिक्क्षेत्राभिमुखाऽस्या विभाव्यताम् ॥१६॥ अत्यन्तकमनीयायामस्यां वृन्दारकबजाः । आसीनाश्च शयानाच, विदन्ति परमां मुदम् ॥ १७॥ वेदिकावनखण्डाभ्यां, समन्तादियमावृता । काञ्चीदामनीलपरिधानाभ्यामिव कामिनी ॥१८॥ दक्षिणस्यामुदीच्या च, तस्यां सिंहासने स्थिते । धनुःपञ्चशतव्यासायामे तदर्द्धमेदुरे ॥ १९॥ ज्ञेयो ग्रन्थान्तरात्सिंहासनयोरिह। वर्णकः । अनावृतस्थलस्थानादेषां चन्द्रोदयं विना ॥२०॥ तुल्यत्वादनयोासायामाभ्यां चतुरस्रता । चतुरस्रपीठबन्धरूपे ज्ञेये इमे ततः॥२१॥ उत्तराहे तत्र सिंहासने देवाश्चतुर्विधाः। अभिषिञ्चन्ति कच्छादिविजयाष्टकतीर्थपान् ॥ २२॥ सिंहासने दाक्षिणात्ये, विजयेषु 'किलाष्टम् । वत्सादिकेषु संजातान्, स्नपयन्ति जिनेश्वरान् ॥ २३ ॥ अयं भावः-शिलायाः संमुखं ह्यस्याः, पूर्वस्यां दिशि वर्तते । क्षेत्रं पूर्व विदेहाख्यं, विजयास्तत्र षोडश ॥ २४ ॥ उत्कर्षतोऽपि तत्र द्वौ, जायते युगपजिनौ । तत्र शीतोत्तराभाविविजयाष्टकजो जिनः ॥ २५॥ सिंहासने सुराधीशैरौत्तराहेऽभिषिच्यते । दाक्षिणात्ये दाक्षिणात्यविजयाष्टकजो जिनः ॥ २६ ॥ एवं भाव्यं पश्चिमायामपि सिंहासनद्वयम् । प्रत्यगविदेहाहद्योग्य, दक्षिणोत्तरयोर्दिशोः॥२७॥ तदेकै दाक्षिणात्योदीच्ययोः शिलयोः किल । यद्भारतैरवतयोरेकैकस्याहतो जनिः॥२८॥ वनस्याथो दाक्षिणात्यपर्यन्ते पाण्डुकम्बला । दक्षिणस्यां दिशि मेरुचूलिकायाः प्रतिष्ठिता ॥ २९ ॥ दक्षिणोत्तरविस्तीर्णा, प्राक्पश्चिमायता च सा । ऋजुताऽस्यादक्षिणस्यां, वक्रता चूलिकादिशि ॥ ३०॥ उपर्यस्या मध्यभागे, सिंहा Jain Education in de For Private & Personal Use Only KOHainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy