SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे १८ सर्गे ॥ २१५ ॥ तथापरा । रक्तावतीति चैशानप्रासादे वापिका मताः ॥ २ ॥ क्षीररसा चेक्षुरसा, तथाऽमृतरसाभिधा । वारुणीति किलाग्नेयप्रासादे वापिकाः स्मृताः ॥ ३ ॥ शङ्खोत्तरा तथा शङ्खा, शङ्खावर्त्ता बलाहका । प्रासादे नैर्ऋतीसंस्थे, वापिकाः परिकीर्त्तिताः ॥ ४ ॥ पुष्पोत्तरा पुष्पवती, सुपुष्पा पुष्पमालिनी । वायव्यकोणे वाप्यः स्युः सर्वाः पूर्वादितः क्रमात् ॥ ५ ॥ आग्नेयनैर्ऋत्यगती, प्रासादौ स्तः शतक्रतोः । वायव्यैशानसत्कौ तावीशानेन्द्रस्य वर्णितौ ॥ ६ ॥ चैत्यप्रासादवापीनां मानं त्रिषु वनेष्वपि । सद्भद्रशालवनवद्विज्ञेयमविशेषितम् ॥७॥ अथास्मिन् पण्डकवनेऽभिषेकाः स्वयम्भुवाम् । शिलाश्चतस्रः प्रज्ञप्ताः स्नानोदकपवित्रिताः ॥ ८ ॥ आद्या |पाण्डुशिलानाम्नी, द्वितीया पाण्डुकम्बला । तृतीया च रक्तशिला, चतुर्थी रक्तकम्बला ॥ ९ ॥ अमून्यासां नामानि जम्बूद्वीपप्रज्ञप्तिसूत्रे, क्षेत्रसमासे तु पाण्डुकम्बला १ अतिपाण्डुकम्बला २ रक्तकम्बला ३ अतिरक्तकम्बला ४ एवमासां नामानि पठ्यन्ते । प्राच्यां मेरुचूलिकायाः, प्राक् पर्यन्ते वनस्य च । भात्यर्जुनस्वर्णमयी, शिला पाण्डुशिलाभिधा ॥ १० ॥ सा पूर्वापर विस्तीर्णा, तथोदग्दक्षिणायता । आयामतो योज नानां शतानि पञ्च कीर्त्तिता ॥ ११ ॥ शतान्यर्द्धतृतीयानि, मध्ये विष्कम्भतो मता । अर्द्धचन्द्राकृतेस्तस्या, | मध्ये परमविस्तृतिः ॥ १२ ॥ पूर्वापरः शरत्वेन, व्यासोऽस्याः परमो बुधैः । जीवात्वेन च परमायामस्तु | दक्षिणोत्तरः ॥ १३ ॥ परिक्षेपो धनुः पृष्ठतया भाव्यो यथोचितः । तत्तत्करणरीत्या वा, समानेयं शरादिकम् | ॥ १४ ॥ चतुर्योजन पिण्डायामस्यां भाति चतुर्दिशम् । तोरणालङ्कृतं कत्रं, सोपानानां त्र्यं त्रयम् ॥ १५ ॥ Jain Education national For Private & Personal Use Only पाण्डुकम्ब लादयः २० २५ ॥ २१५ ॥ २८ www.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy