SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ न्त्यमी । मूले पञ्च योजनानां, शतान्यायतविस्तृताः॥६३ ॥ वनेऽपि पश्चशतिके, पश्चाशद्योजनोत्तरम् । स्थितेरेषां स्थितिः किश्चिदाकाशे बलकूटवत् ॥ ६४॥ अत्रैव नन्दनवने, सुधाशनधराधरात् । ऐशान्यां विदिशि प्रोक्तं, बलकूट जिनेश्वरैः॥६५॥ तथोक्तं जम्बूद्वीपप्रज्ञप्तिसूत्रे-मंदरस्स णं पचयस्स उत्तरपुरच्छिमेणं एत्थणं णंदणवणे बलकूडे णामं कूडे पण्णत्ते'इत्यादि । विदिशोऽपि विशालाः स्युर्महतो वस्तुनः किल । तद् घटेतावकाशोऽत्र, प्रासादबलकूटयोः॥६६॥ अर्द्धन नन्दनवने, कूटमेतदवस्थितम् । अपरार्द्धन चाकाशे, तदुक्तं पूर्वसूरिभिः॥ ६७॥ आह-नन्दनवने बलकूट, नन्दनवनं च पञ्चयोजनशतविस्तीर्णायां मेरोः प्रथम-11 मेखलायां ततः कथं तत्र माति ?, बलकूटेन पञ्च योजनशतानि नन्दनवनसत्कानि रुद्धानि, पञ्च योजनश-15 तानि पुनमैरोबहिराकाशे, ततो न कश्चिद्दोषः। उक्तंच-"नन्दनवण रंभित्ता पञ्चसए जोअणाईनीसरिओ। आयासे पञ्चसए रुभित्ता ठाइ बलकूडो॥१॥” इति क्षेत्रसमासवृत्ती, जम्बूद्वीपप्रज्ञप्तिसूत्रवृत्ती तु-मेरुतः पञ्चाशद्योजनातिक्रमे ईशानकोणे ऐशानप्रासादः, ततोऽपीशानकोणे बलकूटमित्युक्तं, तदभिप्रायं न विद्मः। माल्यवनिरिसंबन्धिहरिस्सहाख्यकूटवत् । सर्वात्मनेदं विज्ञेयं, व्यासायामोचतादिभिः॥ ६८॥ बलनामा सुरस्तत्र, स्वामी तद्राजधान्यपि । मेरोरुत्तरपूर्वस्यां, जम्बूद्वीपेऽपरे मता ॥ ६९ ॥ बलाख्याया राजधान्याः, खरूपमखिलं खलु। हरिस्सहायाः सदृशं, विज्ञेयमविशेषितम् ॥ ७० ॥ गच्छद्भिश्चैत्यनत्यर्थ, पाण्डकेऽदो वनं १ ईशानेशानस्यैशानत्वाविरोधात् न भिन्नता, सहस्रदीर्घत्वाचास्य न तथात्वाभावः. in Educa t ional For Private & Personel Use Only W ww.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy