________________
Jain Education
च सुदर्शना । आग्नेय्यां विदिशि प्राहुर्वापीनामानि सत्तमाः ॥ ३९ ॥ भद्रा विशाला कुमुदा, तथा च पुण्ड| रीकिणी। नैऋत्यां विदिशि प्राहुर्वापीनामानि सत्तमाः ॥ ४० ॥ विजया वैजयन्ती चापराजिता जयन्त्यपि । वायव्यां विदिशि प्राहुर्वापीनामानि सत्तमाः ॥ ४१ ॥ स्युश्चतस्रश्चतस्रस्ताः पूर्वादिदिगनुक्रमात् । स्थिताः परीत्य परितः, प्रासादांस्तान् विदिग्गतान् ॥ ४२ ॥ आग्नेय्यामथ नैर्ऋत्यां प्रासादौ शक्रभर्तृकौ । वायव्यामथ चैशान्यां तावीशानसुरेशितुः ॥ ४३ ॥ कूटा नव भवन्त्यत्र, नन्दनाख्यं च मन्दरम् । निषधाख्यं च हिमवत्कूटं रजतनामकम् ॥ ४४ ॥ रुचकं सागरचित्रं, कूटं वज्रबलाभिधम् । पञ्चाशता योजनैः स्युर्मेरोरेतानि नन्दने ॥ ४५ ॥ पौरस्त्य सिद्धायतनै शानीप्रासादयोः किल । अन्तरे नन्दनं कूटं तत्र मेघङ्करा सुरी ॥ ४६ ॥ जम्बूद्वीपेऽपरत्रास्या, राजधानी सुमेरुतः । ऐशान्यां विदिशि प्रोक्ता, यथार्ह विजयादिवत् ॥ ४७ ॥ पौरस्त्य - सिद्धायतनाग्नेयी प्रासादयोः किल । अन्तरे मन्दरं कूटं तत्र मेघवती सुरी ॥ ४८ ॥ राजधानी पुनरस्याः, पूर्वस्यां मेरुतो मता । जम्बूद्वीपेऽन्यत्र यथास्थानं विजयदेववत् ॥ ४९ ॥ अपाच्यसिद्धायतनानेयीप्रासादयोः किल । अपान्तराले निषधं, सुमेधा तत्र देवता ॥ ५० ॥ मेरोर्दक्षिणतस्तस्या, राजधानीं जगुर्बुधाः । सहस्रान् द्वादशातीत्य, जम्बूद्वीपेऽपरत्र वै ॥ ५१ ॥ अपाच्य सिद्धायतनात्प्रतीच्यां पूर्वतः पुनः । प्रासादान्नैर्ऋतीनिष्ठास्कूटं हैमवतं स्थितम् ॥ ५२ ॥ शोभते खामिनी तत्र देवता मेघमालिनी । जम्बूद्वीपेऽन्यत्र तस्या, मेरुतो राजधान्यपाकू ॥ ५३ ॥ मेघमालिनीस्थाने हेममालिनीति जम्बूद्वीपप्रज्ञप्तिसूत्रे । दक्षिणस्यां प्रतीचीनात्सिद्धा
tional
For Private & Personal Use Only
१०
122
१४
jainelibrary.org