SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ X लोकप्रकाशे १८ सर्गे ॥२१२॥ |घधिकारः भद्रशालवनस्यास्य, समभूमेरुपर्यथ । स्यात्पञ्चयोजनशतातिक्रमे नन्दनं वनम् ॥२४॥योजनानां पञ्च शतान्येतद्विष्कम्भतो मतम् । स्थितं मेरुं परिक्षिप्य, वलयाकृतिनाऽऽत्मना ॥ २५॥ बाह्याभ्यन्तररूपं हि. विष्कम्भद्वितयं भवेत । गिरीणां मेखलाभागे, ततोऽत्र यमुच्यते ॥ २६ ॥ एक एकादशभागो, योजनस्थापचीयते । प्रतियोजनमेवं च, पञ्चशत्या व्यतिक्रमे ॥ २७ ॥ लब्धानि पश्चचत्वारिंशद्योजनानि पञ्चभिः । एकादशांशैयुक्तानि, त्यज्यन्ते मूलविस्तृतेः॥ २८ ॥ दशसहस्ररूपायास्तदेतद्वशिष्यते । शतानि नवनवतिश्चतुष्पञ्चाशदेव च ॥ २९॥ एकादशांशाः षडू बाह्यो, व्यासोऽयं तत्र भूभृतः । दक्षिणोत्तरयोः पूर्वापरयो बनान्तयोः ॥ ३० ॥ एकत्रिंशद्योजनानां, सहस्राणि चतुःशती । एकोनाशीतिरधिका, परिक्षेपोऽत्र बाह्यतः ॥३१॥ बाह्ये च गिरिविष्कम्भे, सहस्रयोजनोनिते । स्यादन्तगिरिविष्कम्मा, स चायं परिभाव्यते ॥ ३२॥ सहस्राणि योजनानामष्टौ नव शतानि च । चतुःपञ्चाशत्तांशाः, षडेकादशनिर्मिताः ॥ ३३ ॥ सहस्रा योजनान्यष्टाविंशतिस्त्रिशती तथा। षोडशाट्या तथा भागा, अष्टावेकादशोत्थिताः॥ ३४ ॥ अन्तः परिरयोऽय च, भवेदस्मिन् वने गिरेः । वनमेतदयो पद्मवेदिकावनवेष्टितम् ॥ ३५॥ एवं चत्वार्यपि वनानि ज्ञेयानि सिद्धायतनमेकैकं, पूर्वादिदिकचतुष्टये । सुवर्णशैलतः पञ्चाशद्योजनव्यतिक्रमे ॥३६॥ विदिक्ष तावतैवा- स्मात्, प्रासादा भद्रशालवत् । तेषां चतुर्दिशं वाप्यः, प्रत्येकमिति षोडश ॥ ३७॥ नन्दोत्तरा तथा नन्दा, सुनन्दा वर्द्धनापि च । ऐशान्यां विदिशि प्राहुर्वापीनामानि सत्तमाः॥३८॥ नन्दिषेणा तथाऽमोघा, गोस्तपा 20282920292020 २५ ॥२१२॥ IN Jain Education a IN nal For Private Personal use only ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy