________________
वर्णभूभृतः । बहिर्देवकुरूणां च, प्रासादः प्राग्वदाहितः॥९॥ शीतोदाया उत्तरतः, पश्चिमायां सुमेरुतः। सिद्धानां सदनं कूटौ, तस्याप्युभयतः स्थितौ ॥१०॥ शीतोदाया उत्तरतो, वायुकोणे सुमेरुतः। बहिरुत्तरकुरुभ्यः, प्रासादः सुरभूभृतः॥११॥ पूर्वस्यामथ शीताया, उदीच्यां मन्दराचलात् । उत्तरासां कुरूणां च, मध्येऽस्ति सिद्धमन्दिरम् ॥ १२॥ कूटो द्वौ तदुभयतो, मेरोः सर्वेऽप्यमी स्थिताः। विहारकूटप्रासादाः, पञ्चाशद्योजनान्तरे ॥ १३॥ योजनानां पञ्च शतान्युच्चैस्त्वेन भवन्त्यमी । गव्यूतानां पञ्चशती, निमग्नाश्च धरोदरे ॥१४॥ मूले पञ्चयोजनानां, शतान्यायतविस्तृताः । मध्ये त्रीणि पञ्चसप्तत्यधिकानि शतानि च ॥ १५॥ उपर्य तृतीयानि, शतानि विस्तृतायताः। कूटा इमे वर्षधरगिरिकूटसमा इति ॥१६॥ सर्वेऽमी वनखण्डेन,| पद्मवेदिकयाऽन्विताः । सिंहासनाव्यखखेशप्रासादभ्राजिमौलयः ॥१७॥ द्वापष्टिं योजनान्येते, प्रासादा विस्तृतायताः। एकत्रिंशद्योजनोचा, रम्या विविधरत्नजाः॥१८॥ एकपल्यायुषस्तेषु, स्वखकूटसमाभिधाः। क्रीडन्ति नाकिनः खैरं, दिक्कुम्भिकूटनायकाः॥१९॥ वस्खकूटविदिश्वेषां, राजधान्यः प्रकीर्तिताः । जम्बूद्वीपेऽन्यत्र यथायोगं विजयदेववत् ॥ २०॥ एतेषु करिकूटेषु, पूर्वाचायश्चिरन्तनः । पच्यन्ते जिनचैत्यानि, स्तोत्रेषु शाश्वताहताम् ॥ २१॥ जम्बूद्वीपप्रज्ञत्यादिसूत्रे तूपलभामहे । न सांप्रतं तत्र तत्त्वं, जानन्ति श्रुतपारगाः ॥२२॥ अत एवोक्तं रत्नशेखरसूरिभिः खोपज्ञक्षेत्रविचारे-"करिकूडकुंडनइदहकुरुकंचणजमलसमविअद्धेसु । जिणभवणविसंवाओ जो तं जाणति गीअत्था ॥ २३ ॥”
१४
For Private Personal Use Only
Jain Educati
www.ainelibrary.org