________________
॥२११॥
लोकप्रकाशे ४ ॥ ९३ ॥ मेरोदक्षिणपूर्वस्यां, शीतोदायाश्च पूर्वतः । मेरोईक्षिणदिवस्थायाः, सुहस्ती नाम दिग्गजः ॥ ९४ ॥ १८ सर्गे अञ्जनो नाम दिग्नागो, नैर्ऋत्यां मेरुभूधरात् । शीतोदायाः पश्चिमतः प्रयान्त्या उत्तरां प्रति ॥ ९५ ॥ दिग्नागः कुमुदोऽप्येवं, नैर्ऋत्यामेव मेरुतः । शीतोदाया दक्षिणतः प्रयान्त्या वारुणीं प्रति ॥ ९६ ॥ उत्तरापरतो मेरोः, पलाशो नाम दिग्गजः । पश्चिमाभिमुखं यान्त्याः, शीतोदाया उदक् च सः ॥ ९७ ॥ अथावतंसकोऽप्येवं, वायुकोणे सुमेरुतः । स शीतायाः पश्चिमतः प्रयान्त्या दक्षिणां प्रति ॥ ९८ ॥ मेरोरुत्तरपूर्वस्यामष्टमो रोचनाचलः । दक्षिणाभिमुखं यान्त्याः शीतायाः पूर्वतश्च सः ॥ ९९ ॥ एकैकस्यां विदिश्येवं, द्वौ द्वौ कूटौ निरूपितौ । प्रासादसिद्धायतनान्तरालेषु किलाष्टसु ॥ १०० ॥ तथाहि वृद्धसंप्रदायः - भद्रशालवने मेरोश्चतस्रोऽपि दिशः किल । नदीप्रवाहै रुद्धास्तद्दिश्वेवागृहाणि न ॥ १ ॥ किंतु नद्यन्तिकस्थानि, भवनानि किलार्हताम् । गजदन्तसमीपस्थाः, प्रासादाश्च बिडौजसाम् ॥ २ ॥ तदन्तरालेष्वष्टासु, करिकूटा यथोदिताः । दर्शितः स्थाननियमस्तत्राप्येष विशेषतः ॥३॥ बहिरुत्तरकुरुभ्यो, मेरोरुत्तरपूर्वतः । शीताया उत्तरदिशि, प्रासादः परिकीर्त्तितः ॥ ४ ॥ मेरोः प्राच्यां दक्षिणतः, शीतायाः सिद्धमन्दिरम् । एतस्योभयतः कूटौ द्वौ प्रज्ञप्तौ जिनेश्वरैः ॥ ५ ॥ बहिर्देव कुरूणां च, मेरोदक्षिणपूर्वतः । शीताया दक्षिणदिशि, प्रासादः कीर्तितो जिनैः ॥ ६ ॥ मध्ये देवकुरूणां वै शीतोदायाश्च पूर्वतः । मेरोर्दक्षिणतः सिद्धायतनं स्मृतमागमे ॥ ७ ॥ अस्याप्युभयतः कूटौ, समश्रेण्या व्यवस्थितौ । धुर्यो युगन्धरस्येव, महीन्द्रस्येव चामरौ ॥ ८ ॥ शीतोदाया दक्षिणतो, नैर्ऋत्यां
Jain Education
ational
For Private & Personal Use Only
दिग्गजा
दयः
२०
२५
॥२११॥
२८
www.jainelibrary.org