SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे १८ सर्गे ॥२१० ॥ Jain Education त्रिषष्टिश्च सहस्राणि द्वितीयं समभूतलात् ॥ ६८ ॥ ततस्तृतीयं षट्त्रिंशत्सहस्रावधि कीर्त्तितम् । एवं काण्डैस्त्रिभिस्तस्य, लक्षमेकं समाप्यते ॥ ६९ ॥ अयं जम्बूद्वीपप्रज्ञप्तिसूत्राभिप्रायः, समवायाङ्गे तु अष्टत्रिंशत्तमे | समवाये द्वितीयविभागोऽष्टात्रिंशद्योजन सहस्राण्युच्चत्वेन भवतीत्युक्तमिति 'ज्ञेयं । चतुर्विधत्वे नन्वेवमाद्यद्वितीयकाण्डयोः । मृत्तिकादिविभागानां न पृथक्काण्डता कथम् ? ॥ ७० ॥ अत्रोच्यते-पृथ्व्यादिवस्तुजत्वेऽपि, नैयत्येनोक्तकाण्डयोः । पृथ्व्यादिरूपभागानामविवेकान्न काण्डता ॥ ७१ ॥ चतुर्भिश्चायमभितो, वनखण्डैरलङ्कृतः । दानशीलतपोभावैजैनधर्म इवोन्नतः ॥ ७२ ॥ तत्र भूमौ भद्रशालं, क्रमान्मेखलयोर्द्वयोः । नन्दनं सौमनसं च, शिखरे पण्डकं वनम् ॥ ७३ ॥ तत्राद्यं भद्रशालाख्यं, मेरोः पश्चिमपूर्वतः । द्वाविंशतिर्द्वाविंशतिः, सहस्राण्यायतं मतम् ॥ ७४ ॥ सार्द्धं द्वे योजनशते दक्षिणोत्तर विस्तृतम् । स्थितं मेरुं परिक्षिप्य, वलयाकृतिनाऽऽत्मना ॥ ७५ ॥ अत्रेयमुपपत्तिः - पूर्वस्यां पश्चिमायां वा य आयामोऽस्य वर्णितः । सोऽष्टाशीत्या विभक्तः सन्, विस्तारोऽत्रैकपार्श्वतः ॥ ७६ ॥ किञ्च - उदीच्यो दाक्षिणात्यो वा, विस्तारोऽस्य वनस्य यः । सोऽष्टाशीत्या ताडितः सन्नायामोऽस्यैकपार्श्वतः ॥ ७७ ॥ भद्रशालवनं चैतदष्टधा विहितं किल । शीतोदया शीतया च गजदन्ताद्रिमेरुभिः ॥ ७८ ॥ तथाहि एको भागो मन्दरस्य, प्राच्यां १ वहिर्दृश्य मेर्वपेक्षया द्वितीयः, तथा च मूलापेक्षया तृतीयः, कर्णदवरिकापेक्षया च ग्रहणं उच्चत्वस्य, दवरिकान्तौ च सौमनसबाह्यपरिधौ चूलामध्ये च, व्यवहारेण साधिकसप्तत्रिंशत्यपि तथोक्तिर्न विरुद्धा | For Private & Personal Use Only काण्डवना नि २० २५ २६ ॥ २१० ॥ www.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy