SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ कन्दाद्योजनानां, लक्षेऽतीते शिरस्तले । लक्षस्यैकादशो भाग, एतावान् परिहीयते ॥५५॥ नवतिर्योजनशतान्यधिका नवतिस्तथा । अंशा दशैकादशोत्थाः, सहस्रं शिष्यते ततः॥५६॥ प्रत्येक परितः पञ्चशतविस्तृतयोननु । नन्दनसौमनसयोः, सद्भावान्मेखलाद्वये ॥ ५७॥ योजनानां सहसस्य, द्विर्भवेद्युगपत् त्रुटिः । कथमेकादशभागहानिस्तदुपपद्यते ? ॥५८॥ युग्मम् । अत्रोच्यते कर्णगत्या, समाघेयमिदं बुधैः । का कर्णगतिरित्येवं, यदि पृच्छसि तच्छृणु ॥५९॥ कन्दादारभ्य शिखरं, यावत्तदुभयस्पृशि। दत्तायां वरिकायां, स्थिरहस्तेन धीमता ॥ ६० ॥ अपान्तराले यत् कापि, कियदाकाशमास्थितम् । तत्समग्रं कर्णगत्या, मेरोराभाव्यमित्यतः॥ ६१॥ तत्प्रकल्प्य मेरुतया, प्राहुर्गणितकोविदाः । सर्वत्रैकादशभागपरिहाणिं यथोदिताम् ॥ ६२॥ अयं चार्थः श्रीजिनभद्रगणिक्षमाश्रमणपूज्यैरपि विशेषणवत्यां लवणोदधिधनग|णितनिरूपणावसरे दृष्टान्तद्वारेण ज्ञापित एवेति । अतोऽयं मेखलायुग्माविवक्षया क्रमात्तनुः। मूले च विस्तृतः सुष्ठदस्तगोपुच्छसंस्थितः ॥ ६३ ॥ | अथात्र त्रीणि काण्डानि, वर्त्तन्ते कनकाचले । काण्डं विभागो नियतविशिष्टपरिणामवान् ॥ ६४ ॥ चतुविधं काण्डमायं, मृत्तिकाबहुलं कचित् । पापाणबहुलं वज्रबहुलं शर्करामयम् ॥६५॥ काण्डं द्वितीयमप्येवं, चतोऽस्य निरूपितम् । अङ्कजं स्फाटिकं कापि, सौवर्ण राजतं तथा ॥६६॥ जात्यजान्बुनदमयं, तृतीयं काण्डमीरितम् । त्रयाणामपिकाण्डानां, परिमाणमथोच्यते ॥६७॥ सहस्रयोजनोन्मानमाद्यमारभ्य कन्दतः। Jain Education a nal For Private & Personel Use Only Yadjainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy