________________
लोकप्रकाशे १८ सर्गे
॥ २०९ ॥
Jain Education
राशिमेनं, कचित्संस्थापयेदुधः ॥ ४१ ॥ नगोच्छ्रयो लक्षरूपो, भाजको रुद्रसंगुणः । लक्षाण्येकादश जातस्तं भागार्थमधो न्यसेत् ॥ ४२ ॥ ( शू० ) अल्पत्वेन विभाज्यस्य, भूयस्त्वाद्भाजकस्य च । भागाप्रायाऽपवयेते, लक्षेण भाज्यभाजकौ ॥ ४३ ॥ उपर्येकः स्थितोऽधस्तादेकादश स्थितास्ततः । लब्ध एकादशभागो ११, योजनं योजनं प्रति ॥ ४४ ॥ यद्वा भाज्य भाजकयोरुभयोर्लक्षरूपयोः । राशि ज्योऽशरूपोऽस्ति, भाजको योजनात्मकः ॥ ४५ ॥ प्रतियोजनमेकोऽशस्तत्सुखेनैव लभ्यते । इयं मेरोरुभयतो, वृद्धिहानी निरूपिते ॥ ४६ ॥ ज्ञातुमिष्टे वृद्धिहानी, तत्र यद्येकपार्श्वतः । द्वाविंशतिविभक्तस्य, योजनस्य लवस्तदा ॥ ४७ ॥ ततोऽयं भावः - यावदुत्पत्यते कन्दादङ्गुलयोजनादिकम् । एकादशस्तस्य भागो, कन्दव्यासात्क्षयं व्रजेत् ॥ ४८ ॥ तथाहि - एकाशखङ्गुलेषु, समुत्कान्तेषु मूलतः । क्षीयते मूलविष्कम्भात्, संपूर्णमेकमङ्गुलम् ॥ ४९ ॥ योजनेष्वपि तावत्सु, समुद्यातेषु मूलतः । क्षीयते मूलविष्कम्भात्संपूर्णमेकयोजनम् ॥ ५० ॥ एवं योजनशतसहस्रेष्वपि भाव्यं । अत एवं योजनानां सहस्रे मूलतो गते । नवतिर्योजनान्यंशा, एकादशोद्भवा दश ॥ ५१ ॥ एतावानेकादशोऽंशः, सहस्रस्य क्षयं गतः । ततः सहस्राणि दश, विष्कम्भो धरणीतले ।। ५२ । एकादशखेकादशस्त्रतिक्रान्तेषु भूमितः । सहस्रेषु किलैकैकं, सहस्रं व्यासतो हसेत् ॥ ५३॥ एवं च नवनवतेः, सहस्राणामतिक्रमे । शिरोभागेऽस्य विष्कम्भः सहस्रमवशिष्यते ॥ ५४ ॥ स्थापना । यद्वा
I
ational
For Private & Personal Use Only
वृद्धिहानी
२०
२५
॥ २०९ ॥
२७
www.jainelibrary.org