SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ लसत्का द्विस्ताराच्छोधयेद्बुधः । यच्छेषं तन्मितस्तस्य, व्यासोऽभीष्टस्थले यथा ॥ २८ ॥ कन्दात्सहस्रमुत्पत्य, व्यासं जिज्ञाससे यदि । सहस्रमेकादशभिर्भज लब्धमिदं पुनः ॥ २९ ॥ नवतियजनान्यंशा, दश चैकादशात्मकाः । कन्दव्यासाच्छोधयेदं ततः शेषाणि यानि तु ॥ ३० ॥ योजनानां सहस्राणि दशैतावान्महीतले । विष्कम्भः स्वर्णशैलस्य, सर्वत्रैवं विभाव्यताम् ॥ ३१ ॥ व्यासानुसारेण सर्वत्रोचत्वज्ञानाय करणं यावान् यत्रा - स्य विस्तारो निश्चितो भूतलादिषु । तस्मिन्मूलस्य विस्ताराच्छोधिते यत्तु शिष्यते ॥ ३२ ॥ गुण्यं तदेकादशभिर्यद्भवेत्तत्प्रमाणतः । उच्चत्वमस्य विष्कम्भस्यानुसारेण तद्यथा ॥ ३३ ॥ योजनानां सहस्राणि दश व्यासोsस्य भूतले । मूलविष्कम्भतस्तेषु, विशोधितेष्वदः स्थितम् ॥ ३४ ॥ नवतियजनान्यंशा, दश चैकादशात्मकाः । अस्मिन्नेकादशगुणे, सहस्रमियमुच्चता ॥ ३५ ॥ मूलभूतलयोर्मध्ये, सर्वत्रैवं विभाव्यताम् । विस्तारस्यानुसारेण, तुङ्गत्वमीप्सितास्पदे ॥ ३६ ॥ अथ सर्वत्र विष्कम्भवृद्धिहानिज्ञानाय करणं - उपरितने विस्तारेऽधस्तन विस्तारतः कृते दूरम् । तन्मध्यवर्त्तिशैलोच्छ्रयेण शेषे हृते विदुषा ॥ ३७ ॥ यल्लब्धं तदुभयतो वृद्धि गिरिमौलितो व्यधःपतने । तावत्येव च हानिमलावारोहणेऽधस्तः ॥ ३८ ॥ आर्यायुग्मम् ॥ तथाहि - साहस्रे ( १००० ) मौलिविष्कम्भे, कन्दव्यासाद्विशोधिते । ( १००९०१ ) शेषं नवत्यधिकानि, शतानि नवतिः स्थितम् ॥ ३९ ॥ ( ९०९० ११ ) अंशा दशैकादशोत्थाश्चैषां कर्त्तुं सवर्णनम् । योजनानां राशि| मेकादशभिर्गणयेदुधः ॥ ४० ॥ भागान् दशोपरितनान्, क्षिपेजाता इमे ततः । लक्षं ( १००००० ) भाज्य Jain EducationE ational For Private & Personal Use Only १० १४ ww.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy