________________
लोकप्रकाशे १८ सर्गे
॥२०८॥
Jain Education
11
मूले दस जोअणसहस्साई विक्खंभेणं पण्णत्ते' इतिज्ञेयं, एकत्रिंशत्सहस्राणि, शता नव दशाधिकाः । योजनानां त्रयश्चैकादशांशाः परिधिस्त्विह ॥ १८ ॥ योजनानां सहस्राणि दशास्य समभूतले । सहस्रमेकं शिखरे, व्यासश्चलोपलक्षिते ॥ १९ ॥ एकत्रिंशत्सहस्राणि योजनानां शतानि षट् । त्रयोविंशत्यधिकानि, परिधिः समभूतले ॥ २० ॥ ऊर्द्ध च परिधिस्तस्य, योजनानां भवेगिरेः । सहस्राणि त्रीणि चैकं, द्वाषष्ट्याऽभ्य धिकं शतम् ॥ २१ ॥
अथ सर्वत्र विष्कम्भज्ञानाय करणं सहस्रयोजनव्यासान्मेरोरुपरिभागतः । यत्रोत्तीर्य योजनादौ, विष्कम्भो ज्ञातुमिष्यते ॥ २२॥ तद्योजनप्रभृत्येकादशभिः प्रविभज्यते । लब्धे सहस्रसंयुक्ते, व्यासोऽस्य वाञ्छितास्पदे ॥२३॥ यथाऽधो नवनवतिं, सहस्राण्यूर्द्धभागतः । अतीत्यात्र प्रदेशे चेद्विष्कम्भं ज्ञातुमिच्छसि ॥ २४॥ तदेतैर्नवनवतिसहस्रै रुद्रभाजितैः । सहस्रान्नव संप्राप्तान्, सहस्रसहितान् कुरु ॥ २५ ॥ एवं दश सहस्राणि जातानि धरणीतले । विष्कम्भो मेरुशैलस्य, सर्वत्रैवं विभाव्यताम् || २६ ।। अथवा प्रकारान्तरेणेदमेव करणं - मूलायत्र योजनादावुत्पत्य ज्ञातुमिष्यते । व्यासस्तस्मिन् योजनादौ, विभक्ते रुद्रसंख्यया ॥ २७ ॥ यल्लब्धं तन्मू१ दृश्यमानमेरुमूले, समभूतलभूभागे इत्यर्थः, अधोऽवगाढस्य सहस्रस्य त्यक्तत्वात् सैकादशदशांशनव तियोजनपातः सुखावसेयः, एकादशांशत्रुदेश्वलामूले सहस्रमानस्य च तत्रापि संगतत्वात, वस्तुतस्तु मूले इति पाठ एव तत्र नास्ति, रुचकनाभिसूत्रे परिधिसूत्रे ऽत्रापि च तत्र धरणितलस्यैव स्पष्टो ग्रहः ।
For Private & Personal Use Only
व्यासादि १५
२०
२४
॥२०८॥
jainelibrary.org