________________
त्वेन, विद्युबद्दीप्तिमत्तया । विद्युत्प्रभेशयोगाद्वा, ख्यातो विद्युत्प्रभाख्यया ॥ ८२॥ आद्यं सिद्धायतनाख्यं, विद्युत्प्रभं द्वितीयकम् । तृतीयं देवकुख्यं, ब्रह्म कूटं तुरीयकम् ॥ ८३॥ पञ्चमं कनकाभिख्यं, षष्ठं सौवस्तिकाभिधम् । सप्तमं शीतोदाकूटं, स्याच्छतज्वलमष्टम् ।। ८४ ॥ हरिकुण्डं तु नवमं, कूटैरेभिरलङ्कृतः । विभाति सानुमानेष, वेदिकावनशोभितः॥ ८५॥ नैऋत्यां मन्दराद् ज्ञेयमाद्यं कूटचतुष्टयम् । षष्ठादुत्तरतस्तुर्यान्नैर्ऋत्यां पञ्चमं मतम् ॥ ८६॥ दक्षिणोत्तरया पड्या, शेषं कूटचतुष्टयम् । मानतोऽष्टापि कूटानि, हिमवगिरिकूटवत् ॥८७॥ नवमं निषधासन्नं, दक्षिणस्यां किलाष्टमात् । सर्वथा माल्यवद्भाविहरिस्सहसमं स तत् ॥ ८८॥ ज्ञेया चमरचञ्चावदेतत्कूटपतेहरेः । मेरोरपाच्यां नगरी, जम्बूद्वीपे परत्र सा ॥ ८९ ॥ तथोक्तं जम्बूद्वीपप्रज्ञप्तिसूत्रे-"जहा मालवंतस्स हरिस्सहकूडे तह चेव हरिकृडे, रायहाणी जहा चेव दाहिणणं चमरचंचारायहाणी| तह णेयवा" क्षेत्रसमासवृत्तावपि सा चमरचञ्चाराजधानीवत्प्रत्येयेति । शेषकूटपतीनां तु, नगर्यो विजयोपमाः। जम्बूद्वीपेऽन्यत्र मेरोदक्षिणस्यां यथायथम् ॥९०॥ दिक्कुमार्यो निवसतस्तत्र पञ्चमषष्ठयोः । पुष्पमालाऽनिन्दिताख्ये, शेषेषु पूर्ववत्सुराः ॥९१॥ भोगङ्करादिमा गन्धमादनाद्यद्रिसानुषु। वसन्त्यो दिक्कुमार्योऽष्टी, या एवमिह भाषिताः ॥ ९२॥ शैलेष्वमीषु क्रीडा), तासां वासो भवेद् ध्रुवम् । वसन्ति च स्वस्वगजदन्ताधो भवनेविमाः॥९३॥ एकैकगजदन्ताधो, द्वे द्वे स्तो भवने तयोः । तिर्यग्लोकं व्यतिक्रम्यासुरादिभवनास्पदे ॥९४ ॥ अधोलोकनिवासिन्योऽत एवामूः श्रुते मताः। भूशुद्धिसूतिवेश्मादिनियुक्ता जिनजन्मनि॥९५॥
Byiw.jainelibrary.org
For Private
Personal Use Only
Jain Educatio
n
al