________________
20902e202929820320020292020
कूडस्स इमस्स बोडवो ॥ ५८ ॥' अयं जम्बूद्वीपप्रज्ञप्तिसूत्राभिप्रायः, जिनभद्रगणिक्षमाश्रमणैस्तु 'अट्ठसहकूडसरिसा सवे जंबूणया भणिया' इत्यस्यां गाथायां ऋषभकूटसमत्वेन भणितत्वात् मूले द्वादश योजनानि अष्टौ मध्ये चत्वारि चोपर्यायामविष्कम्भेनेत्यादि ऊचे, तथैव मलयगिरिपादैाख्यातमपि, जीवाभिगमसूत्रेपीस्थमेवैषां मानं दृश्यते इति तत्त्वं बहुश्रुतगम्यमिति ध्येयं । प्रत्येकमेषामुपरि, चैकैकं सिद्धमन्दिरम् । एतच | जम्बूविडिमासिद्धायतनसन्निभम् ॥ ५९॥ अष्टाप्येते पद्मवरवेदिकावनमण्डिताः । दिगगनानामष्टानां, क्रीडायै निर्मिता इव ॥ ६० ॥ स्थापना । एवमुक्तखरूपाया, अस्या जम्चा महातरोः । नामानि द्वादशैतानि, प्रज्ञप्तानि जिनेश्वरैः॥ ६१॥ सुदर्शना तथाऽमोघा, सुप्रवुद्धा यशोधरा । भद्रा विशाला सुमनाः, सुजाता नित्यमण्डिता ॥ ६२॥ विदेह जम्बूर्नियता, सौमनस्येति कीर्तिता । रत्नमय्या अप्यमुष्या, द्रुमेषु मुख्यतां विदुः॥ ६३ ॥ तथोक्तं बहुश्रुताध्ययने-"जहा सा उमाण पचरा, जंबनाम सुदंसणा । अणाढियस्स देवस्स, एवं हवइ बहुस्सुए ॥ ६४॥" जम्बूद्वीपपतिर्देवो, वसत्यस्यामनादृतः । जम्बूस्वामिपितृव्यो यः, प्राग्भवे सोऽधुनाऽस्त्यसी ॥६५॥ चतुःसामानिकसुरसहस्रसेवितक्रमः । महिषीभिश्चतसृभिः, स्नेहि नीभिः कटाक्षितः ॥६६॥ पद्भिस्तिसृभिर्जुष्टः, सप्तभिः सैन्यसैन्यपैः । उदायधैः षोडशभिः, सहस्रैश्चात्मरक्षिणाम् ॥ ६७ ॥ व्यन्तराणां व्यन्तरीणामन्येषामपि भूयसाम् । अनाहतराजधानीवास्तव्यानामधीश्वरः॥६८॥ मेरोरुदीच्या-10 मन्यत्र, जम्बूद्वीपे महर्द्धिकः । पुर्यामनाताख्यायां, साम्राज्यं पालयत्यसी ॥ ६९॥
29999909200202920289900
के.प्र.३५
Jain Educa
t ional
For Private Personal Use Only
w
.jainelibrary.org