________________
Receneckedeochoteesraeatioerceroese
आन्तरेण मध्यमेन, बाह्येन च यथाक्रमम् । तत्रादिमे बने पूर्वादिषु दिक्षु चतसृषु ॥ ३१॥ पञ्चाशतं योजनानि, वगाह्यात्रान्तरे महत् । एकैकं भवनं जम्बूशाखाभवनसन्निभम् ॥ ३२॥ भवनेष्वेषु सर्वेषु, प्रत्येक मणिपीठिका । तत्रानादृतदेवस्य, शयनीयं श्रमापहम् ॥ ३३ ॥ तस्मिन्नेवादिमवनखण्डेऽखण्डश्रियोज्वले । पञ्चाशतो योजनानामैशान्यां समतिक्रमे ॥ ३४ ॥ अत्रान्तरे पुष्करिण्यश्चतस्रः स्युश्चतुर्दिशम् । प्राच्यां पद्मा दक्षिणस्यां, पद्मप्रभेति नामतः॥ ३५॥ कुमुदाख्या पश्चिमायामुदीच्यां कुमुदप्रभा। सर्वाः क्रोशा विष्कम्भा, एकक्रोशायताश्च ताः॥३६॥ धनुःपञ्चशतोद्वेधा, सचतुर्कीरतोरणाः । वृताः पद्मवेदिकया, वनखण्डेन चाभितः ॥ ३७॥ तासां चतसृणां मध्ये, प्रासादः परिकीर्तितः। स च जम्बूवृक्षशाखाप्रासादसहशोऽभितः ॥ ३८॥ एवमस्मिन्नेव वने, वायव्यां दिशि योजनैः । पञ्चाशता पुष्करिण्यश्चतस्रः स्युश्चतुर्दिशम् ॥ ३९ ॥ प्राच्यामुत्पलगुल्माख्या, याम्यां च नलिनाभिधा । स्यादुत्पला पश्चिमायामुदीच्यामुत्पलोज्वला ॥ ४० ॥ अयं जम्बूद्वीपप्रज्ञप्तिसूत्रजीवाभिगमसूत्राभिप्रायः, बृहत्क्षेत्रसमासे तु-उप्पलभोमा नलिणुजलुप्पला उप्पला य बीयंमि' इति वचनात् तृतीयतुर्ययोर्नाग्नि व्यत्ययः प्रथमायां नानि विशेषश्च दृश्यते इति ज्ञेयं । उक्तपुष्करिणीतुल्या, एता अपि प्रमाणतः। मध्ये तथैव प्रासादो, जम्बूपासादसन्निभः॥४१॥ वनेऽस्मिन्नेवा नैऋत्यां, पश्चाशद्योजनोत्तराः। यथाक्रमं पुष्करिण्यः, प्राच्यादिदिक्चतुष्टये ॥ ४२ ॥ भृङ्गा भृङ्गनिभा किश्चाअनाऽथ कज्जलप्रभा । मध्ये प्रासाद एतासां, सर्व मानं तु पूर्ववत् ॥ ४३ ॥ आग्नेय्यां च योजनानां, पञ्चाशतो
18
Jain Education
For Private Personal Use Only
Herainelibrary.org