SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ क्रोशार्द्धविष्कम्भत्वस्य चोक्तत्वाज्जम्बूप्रकरणे प्रासादा अपि विषमायामविष्कम्भा इति ध्येयमित्यर्थत उ० श्रीशांतिचन्द्रोपज्ञजम्बूद्वीपप्रज्ञप्तिवृत्तौ ॥ जीवाभिगमसूत्रे त्वेषामपि समायामविष्कम्भत्वमेव दृश्यते, तथा च तद्ग्रन्थः - " तत्थ जे दाहिणिल्ले साले एत्थ णं एगे महं पासावडिंसए पण्णत्ते, कोसं च उडुं उच्चत्तेणं अद्धकोसं आयामचिकखंभेणं”हूति, शेषप्रासादसूत्राण्यपि अस्यैव सूत्रस्यातिदेशेनोक्तानीति ज्ञेयं । चतुर्दिग्गतशाखान्तः, शाखा या विडिमाभिधा । तस्या मौलौ मध्यभागे, सिद्धायतनमुत्तमम् ॥ ११ ॥ विष्कम्भायामतश्चैतत्प्राक्शाखाभवनोपमम् | देशोनकोशमुत्तुङ्गपृथुद्वारत्रयान्वितम् ॥ १२ ॥ तस्य मध्ये महत्येका, शोभते मणिपीठिका | धनुःपञ्चशतायामव्यासा तदर्धमेदुरा ॥ १३ ॥ उपर्यस्या महानेको, देवच्छन्दक आहितः । पञ्चचापशतायामविष्कम्भः सर्वरत्नजः ॥ १४ ॥ सातिरेकधनुःपञ्चशतोतुङ्गोऽथ तत्र च । अष्टाधिकं जिनानां शतं वैताढ्यचैत्यवत् ॥ १५ ॥ एवमुक्तस्वरूपोऽयं, जम्बूवृक्षः समन्ततः । भात्यष्टाग्रेण जम्बूनां शतेन परिवेष्टितः ॥ १६ ॥ अमी आद्यपरिक्षेपगता जम्बूमहीरुहः । मूलजम्बूतरोरर्द्धमाना भवन्ति सर्वथा ॥ १७॥ यथा द्वादशभिः पद्मवेदिकाभिः स वेष्टितः । तथाऽमी निखिलाः षड्डिवैदिकाभिरलङ्कृताः ॥ १८ ॥ श्रीदेवी पद्मवचैते, सर्वेऽनादृतनाकिनः । स्वीयाभरणसर्वस्वनिक्षेपवणिगापणाः ॥ १९ ॥ एतेषु च (१०८) जम्बूवृक्षेषु श्रीजम्बूद्वीपप्रज्ञप्तिश्रीजीवाभिगमक्षेत्रविचारादौ सूत्र१ भूमिस्थत्वात् भवनानीति तत्त्वार्थवृत्त्यभिप्रायानुसरणेऽत्र सुस्थता । Jain Education tional For Private & Personal Use Only १० १३ w.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy