________________
-लोकप्रकाशे १७ सर्गे महावि०
॥२०२॥
Jain Education In
दिवर्णनं
र्द्धगामिनी । बिडिमापरपर्याया, सोलुङ्गा योजनानि षट् ॥ ३०० ॥ एवं च कन्दादारभ्य, सर्वाग्रेणाष्टयोज - जम्बूपीठानीम् । जम्बूतरुः समुत्तुङ्गो, भूमग्नः क्रोशयोर्द्वयम् ॥ १ ॥ या तस्य प्रसृता स्कन्धाच्छाखा दिक्षु चतसृषु । पूर्वा२) दिषु किलैकैकाः शिष्यशाखा गुरोरिव ॥ २ ॥ क्रोशेनोनानि चत्वारि, योजनान्यायताश्च ताः । प्रत्येकं चित्रकृत्पत्रफलपुष्पाद्यलङ्कृताः ॥ ३ ॥ एवं चोभयतः शाखादैर्ये स्कन्धोरुतान्विते । विष्कम्भायामतः सोऽयं, भवेत्पूर्णाष्टयोजनः ॥४॥ स्थापना | शाखायाः प्रसृतायाः प्राक्र, मध्यभागे विराजते । अनादृतस्य देवस्य, भवनं रत्ननिर्मितम् ||५॥ अनेकरत्नस्तम्भाठ्यं, क्रोशमायामतो मतम् । विष्कम्भतस्तु क्रोशार्द्ध, देशोनं क्रोशमुन्नतम् ॥ ६ ॥ धनुःपञ्चशतोत्तुङ्ग, तदर्द्ध पृथुलं क्रमात् । प्राच्युदीचीदक्षिणासु, द्वारमेकैकमत्र च ॥ ७ ॥ धनुःपञ्चश|तायामविष्कम्भा मणिपीठिका । तदर्द्धमानबाहल्या, तत्र शय्या विराजिता ॥ ८ ॥ शेषशाखासु तिसृषु, स्युः प्रासादावतंसकाः । प्राक्शाखाभाविभवनानुकाराः सर्वमानतः ॥ ९ ॥ सर्वरत्नमया दीपप्रभापटलभासुराः । अनादृतस्वर्गियोग्यसिंहासनविभूषिताः ॥ १० ॥ यद्यपि विषमायामविष्कम्भं भवनं श्रीदेव्यादिभवनवत् समायामविष्कम्भः प्रासादो विजयादिप्रासादवदिति भवनप्रासादयोर्विशेषमामनन्ति तथापि श्री - जम्बूद्वीपप्रज्ञप्तिसूत्र श्री जिन भद्रगणिक्षमाश्रमणकृत क्षेत्रसमासश्रीउमाखातिवाचककृतं जबूद्वीपसमा सश्रीसोमतिलक सूरिकृतन व्यवृहत्क्षेत्रसमासादिष्वेतेषां वक्ष्यमाणवनगतानां च प्रासादतया व्यपदिष्टत्वात्क्रोशायाम
For Private & Personal Use Only
॥२०२॥
२५
२६
lainelibrary.org