________________
लोकप्रकाशे
॥ १९९॥
दक्षिणोत्तरमायतौ । त्रिंशत्सहस्रान् द्विशतीं, नवोत्तरां सषट्कलाम् ॥ ९ ॥ पूर्वापरं च विस्तीर्णौ, समीपे नील१७ सर्गे वगिरेः । शतानि पञ्च पर्यन्तेऽङ्गुलासङ्ख्यांशविस्तृतौ ॥ १० ॥ चतुःशतीं योजनानां गिरेनीलवतोऽन्तिके । महावि० 8 अभ्युन्नतौ शतमेकमवगाढौ भुवोऽन्तरे ॥ ११ ॥ समीपे मन्दरस्याथ, स्यातां पञ्चशतोन्नतौ । निमग्नौ पञ्च गव्यूतशतानि वसुधान्तरे ॥ १२ ॥ नीलवत्पर्वतोपान्ताद्वर्द्धमानाविमौ क्रमात् । समुत्सेधावगाहाभ्यां विस्तृत्या हीयमानकौ ॥ १३ ॥ पूर्वोक्तमानविस्तीर्णोद्विद्धोच्चावुपमन्दरम् । नीलवच्छेलकरिणो, दशनाविव राजतः ॥ १४ ॥ प्रत्येकं च पद्मवर वेदिकावनमण्डितौ । कुरुतस्तौ मिथो योगादधिज्यधनुराकृतिम् ॥ १५ ॥ गन्धमादनसन्माल्यवतोः पर्वतयोरथ । अभ्यन्तरे स्थिताः कान्तभुजयोरिव कामिनी ॥ १६ ॥ मन्दराद्रेरुत्तरस्यां दक्षिणस्यां च नीलतः । उत्तराः कुरवः ख्याता, अनुत्तरचिदाश्रयैः ॥ १७ ॥ युग्मम् ॥ उदग्दक्षिणविस्तीर्णास्ताः पूर्व पश्चिमायताः । अर्द्धेन्दुमण्डलाकारा, भुवो भालमिवाहिताः ॥ १८ ॥ स्थापना । अत्रोत्तरकुरुर्नाम देवः पल्योपमस्थितिः । वसत्यतस्तथा ख्याता, यद्वेदं नाम शाश्वतम् ॥ १९ ॥ एकादश सहस्राणि, शतान्यष्ट तथोपरि । योजनानां द्विचत्वारिंशत्कलाद्वितयं तथा ॥ २० ॥ दक्षिणोत्तरविस्तार, एतासां वर्णितो जिनैः । ज्ञातव्यात्रोपपत्तिश्च पूर्वाचार्यप्रदर्शिता ॥ २१ ॥ महाविदेहविष्कम्भे, मेरुविष्कम्भवर्जिते । अर्धीकृते कुरुव्यासमानं भवति निश्चितम् ॥ २२ ॥ त्रिपञ्चाशद्योजनानां सहस्राणि भवेदिह । प्रत्यश्वा नीलवत्पार्श्वे, सा चैवं परिभाव्यताम् ॥ २३ ॥ भद्रशालवनायामो, द्विगुणो मंदरान्वितः । गजदन्तव्यास
Jain Education
tional
For Private & Personal Use Only
गजदन्तकूटानि उत्त राः कुरवः
२०
२५
॥ १९९ ॥
२८
v.jainelibrary.org