SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ खे. प्र. ३४ Jain Educatio पूर्णभद्रादुत्तरस्यां याम्यां नीलवतो गिरेः । कूटं नाम्ना सहस्राङ्कं ख्यातं हरिस्सहं च तत् ॥ ९६ ॥ एतनीलवतो वर्षधरस्यासन्नमीरितम् । जात्यस्वर्णमयं दीप्रप्रभापटलपिञ्जरम् ||१७|| योजनानां सहस्रं तत्तु वृत्ताकृति ध्रुवम् । अयर्द्धयोजनशतद्वयमुदेधतो भवेत् ॥ ९८ ॥ तथोक्तं जम्बूद्वीपप्रज्ञप्तिवृत्तौ-अवशिष्टं यमकगिरिप्रमाणेन नेतव्यं तच्चेदं - 'अड्ढाइलाई जोअणसयाई उच्छेणं' सहस्रं योजनानां च स्यान्मूले विस्तृतायतम् । मध्ये सार्द्धा सप्तशतीं, शतानि पञ्च चोपरि ॥ ९९ ॥ योजनानां त्रिसहस्री, सद्वाषष्टिशतान्विता । द्वे सहस्रे चद्विसप्तत्यधिकत्रिशताऽञ्चिते ॥ २०० ॥ सहस्रं साधिकैकाशीत्याढ्य पञ्चशतान्वितम् । क्रमादस्य परिक्षेपा, मूले मध्ये तथोपरि ॥ १ ॥ शतानि पञ्च विस्तीर्णे, गजदन्तगिराविदम् । सहस्रयोजनपृथु, कूटं माति कथं ननु ? ॥ २ ॥ अत्रोच्यते-- गजदन्तगिरिं व्याप्य, निजार्द्धन स्थितं ततः । गिरेरुभयतो व्योम्नि, शेषार्देन प्रतिष्ठितम् ॥ ३ ॥ तथोक्तं क्षेत्रसमासवृहद्वृत्तौ - "एवं हरिकूटहरिस्सह्कूटयोरपि निजनिजाश्रय गिर्योर्यथारूपमुभयपार्श्वे आकाशमवरुद्ध्य स्थितत्वं परिभावनीय" मिति । आद्यकूटे जिनगृहं, तथा पञ्चमषष्ठयोः । सुभोगाभोगमालिन्यौ, दिक्कुमार्ये निरूपिते ॥ ४ ॥ शेषेषु षट्सु कूटेषु, पल्योपमायुषः सुराः । कूटानुरूपनामानो, महर्ष्या विजयोपमाः ॥ ५ ॥ एतेषां देवदेवीनामैशान्यां मन्दरागिरेः । जम्बूद्वीपेऽन्यत्र राजधान्यो हरिस्सह | विना ॥ ६ ॥ हरिस्सहस्य तु ख्याता, राजधानी सुमेरुतः । उत्तरस्यामन्यजम्बूद्वीपे हरिस्सहाभिधा ॥ ७ ॥ सहस्राञ्चतुरशीतियजनानां भवेदिह । व्यासायामावपरं तु तुल्यं चमरचश्चया ॥ ८ ॥ इमावद्द्री योजनानां, tional For Private & Personal Use Only ५ १० १४ w.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy