________________
लोकप्रकाशे क्षेत्रलोके सर्गः १२
॥१३६॥
Jain Education
चतुर्भिः खण्डुकैः सूची, रज्जुः श्रेण्या व्यवस्थितैः । ताभिश्चतुर्भिः प्रतररज्जुः षोडशखण्डुका ॥ ४ ॥ चतसृभिश्च प्रतररज्जुभिर्जायते किल । घनरज्जुञ्चतुःषष्टिः, खण्डुकाः सर्वतः समाः ॥५॥ क्रमात् स्थापना । अष्टाविंशं शतमध, ऊर्ध्व षट्सप्ततिर्मताः । सर्वाश्चतुर्भिरधिके, द्वे शते सूचिरज्जवः ॥ ६॥ दन्तैर्मिता अधोलोके, ऊर्ध्वमेकोनविंशतिः । एकपञ्चाशदाख्याताः सर्वाः प्रतररज्जवः ॥ ७ ॥ अधोऽष्टावूर्ध्वलोके च निर्दिष्टा घनरज्जवः । पादोनाः पञ्च सर्वाग्रे, स्युः पादोनास्त्रयोदश ॥ ८ ॥ इदं दृष्टलोकमानं । वर्गितस्य च लोकस्याधोलोके घनरज्जवः । साया पञ्चसप्तत्याऽधिकमेकं शतं मतम् ॥ ९ ॥ ऊर्ध्वलोके भवेत्सार्द्धा, त्रिषष्टिः सर्वसंख्यया । ध्रुवमेकोनया चत्वारिंशताढ्यं शतद्वयम् ॥ १० ॥ आसां चतुर्गुणत्वे च सर्वाः प्रतररज्जवः । शतानि नव षट्पञ्चा शता युक्तानि तत्र च ॥ ११ ॥ शतानि सप्तद्व्यधिकान्यधोलोके प्रकीर्त्तिताः । ऊर्ध्वलोके द्वे शते च चतुः| पञ्चाशताधिके ॥ १२ ॥ चतुर्गुणत्वे चैतासां भवन्ति सूचिरज्जव: । चतुर्विंशत्युपेतानि, त्वष्टात्रिंशच्छतानि वै ॥ १३ ॥ तत्रापि - अधोलोके शतान्यष्टाविंशतिः स्फुटमष्ट च । ऊर्ध्वलोके पुनस्तासां सहस्रं षोडशाधिकम् । ॥ १४ ॥ इति वर्गित लोकमानं ॥
घनीकृतो भवेल्लोकः, सप्तरज्जुमितोऽभितः । विष्कम्भायामबाहल्यैः, स बुद्ध्यैवं विधीयते ।। १५ ।। एकरज्जूविस्तृतायास्त्रसनायास्तु दक्षिणम् । अधोलोकवर्त्तिखण्डमूनरज्जूत्रयाततम् ॥ १६ ॥ सर्वाधस्ताद्धीयमानविस्ता| रत्वादुपर्यथ । रज्वसंख्येय भागोरुसप्तरज्जूच्छ्रयं च तत् ॥ १७ ॥ गृहीत्वोत्तरदिग्भागे, त्रसनाड्याः प्रकल्प्यते ।
For Private & Personal Use Only
सूची
रजवादि १५
२५
॥१३६॥ २७
jainelibrary.org