________________
समन्विताः । भवन्त्यष्टादश भावदिशस्तीर्थकरोदिताः॥९२॥ यत्र क्वचिदपि स्थित्वा, प्रज्ञापको दिशां बलात् । निमित्तं वक्ति धर्म वा, गुरुः प्रज्ञापकाख्यदिक ॥ ९३ ॥ यस्या दिशः संमुखस्था, प्रज्ञापकः प्ररूपयेत् ।। धर्म निमित्तादिकं वा, सा पूर्वाऽनुक्रमात्पराः॥९४ ॥ एताश्चाष्टादशविधाः, स्युस्तिर्यक तत्र षोडश । तिस्र-18 स्तिस्रः प्रतिविदिक, दिक्ष्वेकैकेति कल्पनात् ॥ ९५॥ शकटो/स्थिताः प्रज्ञापकोपान्तेऽतिसंकटाः। विस्तीर्णाश बहिरूध्ध्वाधोयुक्ताश्चाष्टादश स्मृताः॥९६ ॥ अथ प्रकृतं
पृथिव्योस्तुर्यपञ्चम्योर्मध्ये यद्रियदन्तरम् । तदद्देऽधस्तने न्यूनेऽधोलोकमध्यमीरितम् ॥ ९७ ॥ अधस्ताद्ब्रह्मलोकस्य, रिष्ठाख्यप्रस्तटे स्फुटम् । मध्यं तत्रोप्रलोकस्य, लोकनाथैर्विलोकितम् ॥ ९८ ॥ तथा-पूर्णेकरजू-19 पृथुलात् , क्षुल्लकप्रतरादितः। ऊर्ध्व गतेऽङ्गुलासंख्यभागे तिर्यग्विवर्द्धते ॥ ९९ ॥ अङ्गुलस्यासंख्यभागः, परमत्रेति भाव्यताम् । ऊर्ध्वगादङ्गुलस्यांशादंशस्तिर्यग्गतो लघुः॥१००॥ एवमधोऽपि । एवं चोर्ध्वलोकमध्यं, पृथुलं पञ्च रजवः। हीयतेऽतस्तथैवोवं, रज्जुरेकाऽवशिष्यते ॥१॥ किंच-रजुमानाद् द्वितीयस्मात् , क्षुल्लकप्रतराचितिः। अधोमुखी च तिर्यक् चाङ्गुलासंख्यांशमात्रिका ॥२॥ एवं चाधोलोकमूले, पृथुत्वं सप्त रजवः। अथात्र सूचीरज्वादिमानं किंचिन्निगद्यते ॥ ३ ॥ इदं च संग्रहणीवृत्त्यनुसारेण, लोकनाडीस्तवे तु प्रदेशवृद्धिहानी दृश्यते लोकतिर्यगवृद्धौ । स्थापना। १ प्रतिकोणं तदपरभागद्वयस्य दिशां मध्यादपकर्षात् प्रज्ञापकदिशोऽष्टादश.
।
www.jainelibrary.org
Jain Educ
a
For Private Personal Use Only
tional