SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ मिवालयः। भान्त्यर्हदभिषेकाय, न्यस्तानामम्बुपूर्तये ॥ ४७ ॥ युग्मम् ॥ सिद्धायतनवर्जानि, स्वखतुल्याख्यनाकिना । तान्याश्रितानि विजयदेववत् ते महर्द्धिकाः॥४८॥ शीताशीतोदयोर्याम्योत्तरयोर्ये सुधाभुजः। क्रमात्तेषां राजधान्यो, मेरुतो दक्षिणोत्तराः॥४९॥ गाहावती इदावती, तृतीया वेगवत्यपि । शीताया उत्तरतटे,स्युस्तिस्रोऽन्तरनिम्नगाः॥५०॥ शीतायाम्यतटे तप्ता, मत्तोन्मत्तेति निश्चिताः। क्षीरोदा शीतस्रोताश्वान्तर्वाहिनीति नामतः ॥ ५१ ॥ शीतोदाया याम्यतटे, तस्या उत्तरतः पुनः । ऊर्मिगम्भीरफेनेभ्यो, मालिन्योऽन्तरनिम्नगाः॥५२॥ द्वादशानामप्यमूषामेकैकं कुण्डमीरितम् । खतुल्याख्यं नीलवतः, समीपे निष-13 धस्य वा ॥५३ ॥ कुण्डं पुनस्तदेकैकं, विष्कम्भायामतो मतम् । सपादं योजनशतमुदिद्धं दशयोजनीम् ॥५४॥ परिक्षेपेण साशीतियोजनानां शतत्रयम् । मध्ये च द्वीप एकैको, नदीकुण्डसमाभिधः॥५५॥ यथा गाहावतीनद्याः, कुण्डं गाहावतीति च । तत्र गाहावतीद्वीपो, भवत्येवं परेऽप्यमी ॥५६॥ योजनानि षोडशामी, विष्कम्भायाममानतः । सातिरेकाणि पश्चाशत्, प्रज्ञप्ताः परिवेषतः॥५७॥ किश्च सर्वेऽप्यमी द्वीपा, द्वौ कोशावुच्छ्रिता जलात् । पद्मवेदिकया सर्वे, वनेन च विराजिताः॥५८॥ मध्ये च तेषां दीपानामेकैकं भवनं भवेत् । नदीनामसदृनाम्या, देव्या योग्यमनुत्तरम् ॥५९॥ अर्द्धक्रोशव्यासमेकक्रोशायतं मनोहरम् । देशोनक्रोशतुझंवदेवीशय्याविभूषितम् ॥ ६०॥ युग्मम् ॥ एताश्च गाहावत्याद्या, निमग्ना निखिला अपि । पञ्चविंशं योजनानां, शतं विष्कम्भतो मताः ॥ ६१॥ साढ़े द्वे योजने निम्ना, आरभ्य इदनिर्गमात् । शीताशीतोदाप Jan Educah For Private 3 Personal Use Only
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy