SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ KARE कीर्तिताः ॥ १५ ॥ क्षेमा क्षेमपुरी चैवारिष्ठा रिष्टवती पुरी । खड्गी मञ्जुषौषधिश्च, पुरी च पुण्डरीकिणी ॥१६॥ शीताया दाक्षिणात्येषु, वत्सादिविजयेष्विमाः। राजधान्य उत्तरार्द्ध, मध्यखण्डेषु वर्णिताः॥१७॥ सुसीमा कुण्डला चैवापराजिता प्रभङ्करा । अङ्कायती पक्ष्मवती, शुभाऽथ रत्नसंचया ॥१८॥ शीतोदाया याम्यतटे, पक्ष्मादिविजयेष्विमाः । उत्तरार्द्धमध्यखण्डे, राजधान्यो निरूपिताः॥१९॥ अश्वपुरी सिंहपुरी, महाख्या विजयाभिधा । अपराजिताऽपराख्या, शोका च वीतशोकिका ॥ २० ॥ शीतोदाया उदीच्येषु, वप्रादिविजये। विमाः। याम्याथै मध्यखण्डेषु, राजधान्यो जिनः स्मृताः॥ २१॥ विजया वैजयन्ती च, जयन्ती चापराजिता । चक्रपुरी खड्गपुर्यवन्ध्याऽयोध्येति नामतः ॥२२॥ विजयध्वेषु मनुजाः, पञ्चचापशतोन्नताः। जघन्योत्कर्षतः पूर्वकोटिक्षुल्लभवायुषः ॥ २३ ॥ नानासंहनना नानासंस्थाना विविधाशयाः । मृत्वा नानागतिं यान्ति, खखकर्मानुसारतः॥२४॥ कालः सदाऽत्र सुषमादुषमारम्भसन्निभः । सांप्रतीनभरतवद्गर्भापत्यावनादिकम् ॥२५॥ आहारस्यान्तरे माने, चानयत्यं तथैव हि । ततश्चतुःशतगुणं, मानं च स्याद्ग्रहादिषु ॥२६॥ चित्राद्यान् देवशैलान्तान् , वक्षस्कारगिरीन्विदुः। चतुरश्चतुरः शीताशीतोदयोस्तटद्वये ॥२७॥ चित्रश्च ब्रह्मकूटश्च, नलिनीकूट इत्यपि । एकशैलश्चेति शीतोत्तरकूले धराधराः॥ २८॥ त्रिकूटश्च वैश्रमणोऽञ्जनोमातञ्जनोपिच । शीताया दक्षिणतटे, वक्षस्काराचला इमे ॥ २९ ॥ अङ्कापाती पक्ष्मपाती, आशीविषः सुखावहः। शीतोदाया याम्यतटे, वक्षस्काराद्रयः श्रुताः ॥ ३०॥ चन्द्रः सूर्यश्च नागश्च, देवश्चेति महीधराः । शीतोदाया Jain Education na For Private & Personel Use Only C ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy