SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे १७ सर्गे महावि० ॥१९५॥ Jain Educatio प्रविशतः खरूपं पुनरेतयोः । पूर्वोक्ताभिर्नदीभिः स्यान्निःशेषमविशेषितम् ॥ १०० ॥ शीतोदायाम्यकूलेऽपि, विजयेष्वेवमष्टसु । निषधस्योदग्नितम्बे, एकैको वृषभाचलः ॥ १ ॥ तस्याप्युभयतः कुण्डे, प्राग्वद् द्वे द्वे मनोरमे । सिन्धुकुण्डं पश्चिमतो, गङ्गाकुण्डं च पूर्वतः ॥ २ ॥ ताभ्यां गङ्गासिन्धुनद्यौ, प्रव्यूढे उत्तराध्वना । प्राग्वद्विभिन्नवैताढये, शीतोदां विशतो नदीम् ॥ ३ ॥ इत्थमेवोत्तरतटे, शीतोदासरितः किल । नितम्बे दक्षिणे नीलवतोऽस्ति वृषभाचलः ॥ ४ ॥ प्राग्वद्वृषभकूटस्य, गिरेरस्यास्ति पूर्वतः । रक्ताकुण्डं रक्तवतीकुण्डं पश्चिमतस्ततः ॥ ५ ॥ एताभ्यामपि कुडाभ्यां, निर्गत्य दक्षिणामुखे । रक्तारक्तवतीनद्यौ भित्त्वा वैताढ्यभूधरम् ॥६॥ शीतोदायां प्रविशतो, याम्येन ऋजुनाऽध्वना । गङ्गासिन्धुश्रवन्तीभ्यामिमाः सर्वात्मना समाः ॥ ७ ॥ तथाहुः क्षमाश्रमणमिश्रा :- "सीयाइ उन्नेसु सीओयाए य जम्मविजएसु । गंगासिन्धुनईओ इयरेसु य रत्तरत्तवई ॥ ८ ॥” कुण्डान्येवं चतुःषष्टिर्द्वात्रिंशद्वृषभाद्रयः । खरूपमेषां भरतवर्त्तिकुण्डर्षभाद्रिवत् ॥ ९ ॥ चतुःषष्टेस्तथैवासां नदीनां हृद निर्गमात् । आरभ्य शीताशीतोदावाहिनीसंगमावधि ॥ १० ॥ सर्व खरूपं भरतगङ्गासिन्धुसरित्समम् । प्रत्येकं परिवारोऽपि, तावान् ज्ञेयो विशारदैः ॥ ११ ॥ गङ्गा रक्तान्यतरस्याः, प्रवेशे मागधाभिधम् । शीताशीतोदयोरन्यतरस्यां तीर्थमाहितम् ॥ १२ ॥ एवं सिन्धुरक्तवत्योर्योगे प्रभासनामकम् । तयोद्वयोरन्तराले, वरदामं भवेदिह ॥ १३ ॥ एवं तीर्थत्रयं ज्ञेयं, विजयं विजयं प्रति । खरूपमेषां भरततीर्थवत्परिभाव्यताम् ॥ १४ ॥ उत्तराहेषु शीतायाः, कच्छादिविजयेष्विमाः । राजधान्यो दक्षिणार्द्धमध्यखण्डेषु ational For Private & Personal Use Only विजयेषु गंगादिव - र्णनम् २० २५ ॥ १९५॥ २८ ww.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy