________________
वनमुखं ततः। तत्संमुखं वनमुखं, शीतोदोत्तरकूलजम् ॥ ५३॥ वनस्यैतस्य पूर्वस्यां, विजयो वप्रनामकः।
स्तस्य चन्द्राख्यो, वक्षस्कारगिरिभवेत् ॥ ५४॥ विजये विहरत्यस्मिन् , युगन्धरजिनेश्वरः। अधुना देशनासारैः, पुनानो भव्यमण्डलम् ॥५५॥ ततः सुवप्रविजयस्ततो नगर्मिमालिनी। ततो महावप्रनामा, विजयः IS कथितो जिनैः॥५६॥ ततः सूरो नाम गिरिस्ततो वप्रावती भवेत् । विजयोऽन्तेऽस्य गम्भीरमालिनी कथिता
नदी ॥ ५७॥ ततश्च वल्गुविजयस्ततो नागाभिधो गिरिः। ततः सुवल्गुविजयस्ततश्च फेनमालिनी ॥५८॥ स्यादन्तरनदी तस्या, गन्धिलो विजयः परः। ततो गिरिदेवनामा, ततश्च विजयः किल ॥ ५९॥ स्याद्गन्धिलावती नाना, ततश्च गन्धमादनः। गजदन्तगिरिस्तस्मादुत्तराः कुरवः पराः ॥६॥ एवं च-कच्छः सुकच्छश्च महाकच्छः कच्छावतीति च । आवतॊ मङ्गलावतः पुष्कल: पुष्कलावती ॥६१॥ वच्छः सुवच्छश्च महावच्छो वच्छावतीति च । रम्यो रम्यकरमणीयौ मङ्गलावतीति च ॥६२॥ पक्ष्मः सुपक्ष्मश्च महापक्ष्मः पक्ष्मावतीति च । शङ्खश्च नलिनश्चैव कुमुदो नलिनावती॥६३॥ वप्रः सुवप्रश्च महावो वप्रावती तथा । वल्गुः सुवल्गुर्विजयो, गन्धिलो गन्धिलावती ॥६४॥ द्वात्रिंशदेते विजयाः, कच्छाद्याः सृष्टितः क्रमात् । माल्यवद्गजदन्ताडेरारभ्यागन्धमादनम् ॥६५॥ द्वाविंशतिः शतानीषन्यूनानि च त्रयोदश । योजनानीह विष्कम्भः, सर्वेषु विजयेष्वथ ॥६६॥ सहस्राणि षोडशैषामायामः पञ्चभिः शतैः। योजनानां द्वानवत्या, चा-18 व्यानि द्विकलाव्यया ॥ ६७॥ अन्तर्नदीनां सर्वासां, वक्षस्कारमहीभृताम् । सर्वेषामप्यसावेवायामो ज्ञेयो
107
Ricesevere
ainelibrary.org
Jain Education
a
l
For Private & Personal use only