SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे १७ सर्गे महावि० ॥ १९३॥ जिनः श्रीमान्, विजयेऽस्मिन् विराजते । सुरेश्वरकरामशरसकृन्मसृणक्रमः ॥ ३९ ॥ त्रिकूटः पर्वतोऽस्यान्ते, सुवत्स विजयस्ततः । तप्तानामान्तरनदी, तस्य सीमाविधायिनी ॥ ४० ॥ ततो महावत्सनामा, विजयोऽस्य च सीमनि । शैलो वैश्रमणकूटस्तस्य पश्चिमतः पुनः ॥ ४१ ॥ वत्सावतीति विजयस्तस्य सीमाविधायिनी । नदी मत्ता ततः प्रत्यग्, रम्याख्यो विजयस्ततः ॥ ४२ ॥ अञ्जनाद्विरमुष्यान्ते, रम्यको विजयस्ततः । उन्मताख्या नदी तस्या, विजयो रमणीयकः ॥ ४३ ॥ मातञ्जन गिरिस्तस्य सीन्यथो मङ्गलावती । विजयोऽस्य च सीमायां, गिरिः सौमनसाभिधः ॥ ४४ ॥ अस्य पश्चिमतो देवकुरवस्तदनन्तरम् । गिरिर्विद्युत्प्रभनामा, गजदन्ताकृतिः स्थितः ॥ ४५ ॥ तस्य पश्चिमतः पक्ष्मविजयः परिकीर्त्तितः । ततोऽङ्कापाती क्षितिभृत्सुपक्ष्मो विजयस्ततः ॥ ४६ ॥ ततः क्षीरोदाख्यनदी, महापक्ष्माभिधस्ततः । विजयोऽन्तेऽस्य च पक्ष्मपातीति क्षितिभृ|द्भवेत् ॥ ४७ ॥ पक्ष्मावतीति विजयः कथितस्तदनन्तरम् । शीतस्रोता नाम नदी, तस्य सीमाविधायिनी ॥ ४८ ॥ तस्याः पश्चिमतः शङ्खविजयोऽन्तेऽस्य राजते । आशीविषगिरिस्तस्माद्विजयो नलिनोऽग्रतः ॥ ४९ ॥ नद्यन्तर्वाहिनी तस्य मर्यादाकारिणी भवेत् । तस्याः पश्चिमतः ख्यातो, विजयः कुमुदाभिधः ॥ ५० ॥ सुखावहो गिरिस्तस्य मर्यादाकारको भवेत् । ततः परं च नलिनावतीति विजयो मतः ॥ ५१ ॥ नमस्यते सुकृतिभिः, सुबाहुर्जगदीश्वरः । विजये विहरन्नस्मिन् शतऋतुतस्तुतः ॥ ५२ ॥ शीतोदादक्षिणतदाश्रितं १ सूर्येन्दूनाम संख्येयानां भावात् शतशब्दोऽत्र शतश इत्यर्थकः, न तु शतमेवेन्द्राः, द्वात्रिंशतः चतुष्षष्टेः असंख्यातानामेव वा भावात् । Jain Educatinational For Private & Personal Use Only विजयाद्यु देशः २० २५ ॥१९३॥ २७ www.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy