SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ थे. प्र. ३३ Jain Educatio समभूमेः समारभ्य, पश्चिमायां क्रमात्ततः ॥ २३ ॥ विजये नलिनावत्यां वप्राख्ये चान्तवर्त्तिनः । सहस्रं योजनान्युण्डा, ग्रामा भवन्ति केचन ॥ २४ ॥ ततोऽघोलौकिकग्रामा, इति ते ख्यातिमैयरुः । तेषामन्ते स्थिता भूमिभित्ती रोडुमिवार्णवम् ॥ २५ ॥ तत्रैव जगतीभित्तिर्जयन्तद्वारराजिता । ऊर्द्ध स्थिताऽघोग्रामाणां, दिदृक्षुरिव कौतुकम् ॥ २६ ॥ शीतोदाऽपि स्त्रीखभावादिवाधोगामिनी क्रमात् । योजनानां सहस्रेऽन्धि, याति भित्त्वा जगत्यधः ॥ २७ ॥ एवं च पश्चिमार्द्धस्य क्रम निम्ना क्षितिर्भवेत् । कूपकोशसमाकर्षिवृषगन्तव्यभूरिव ॥ २८ ॥ ततो निम्ननिम्नतरा, भवन्ति समभूतलात् । तत्रत्या विजयाः शैलाः, सरितश्च यथोत्तरम् ॥ २९ ॥ माल्यवद्गजदन्तस्य पूर्वतो विजयो भवेत् । कच्छाख्यस्तस्य पूर्वान्ते, सीमकृच्चित्रपर्वतः ॥ ३० ॥ ततः सुकच्छविजयस्तस्यापि सीमकारिणी । गाहावतीनाम नदी, महाकच्छस्ततः परम् ॥ ३१ ॥ विजयस्यास्य पूर्वान्ते, ब्रह्मकूटाभिधो गिरिः । कच्छावतीति विजयस्ततः परमुदीरितः ॥ ३२ ॥ हृदावती नदी तस्य, मर्यादाकारिणी ततः । आवर्त्तविजयोऽस्यान्ते, नलिनीकूटपर्वतः ॥ ३३ ॥ मङ्गलावर्त्तविजय, एतस्मात्पूर्वतो भवेत् । तस्य वेगवती नाम, नदी सीमाविधायिनी ॥ ३४ ॥ विजयः पुष्कलस्तस्याः, पूर्वतस्तस्य सीमकृत् । एकशैलगिरिस्तस्माद्विजयः पुष्कलावती ॥ ३५ ॥ विजयेऽस्मिन् विजयते, सीमन्धरजिनोऽधुना । जगद्दिनकरः पुण्यप्रकर्षप्रा - प्यदर्शनः ॥ ३६ ॥ ततः परं वनमुखमित्येवं विजयाष्टकम् । शीताया उत्तरतटे, पर्यन्ते वनराजितम् ॥ ३७ ॥ तत्संमुखं वनमुखं, शीताया दक्षिणे तटे । तस्मात्पश्चिमतो वत्सनामा विजय आहितः ॥ ३८ ॥ बाहुनामा tional For Private & Personal Use Only १० १४ w.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy