________________
टम द्वारस्य विजयस्थाधो, विशति प्राच्यवारिधिम् ॥५२॥ षभिः कुलकं । अस्या वार्द्धिप्रवेशान्तमारभ्य हृदनिर्गमात् । शीतोदया समं सर्व, ज्ञातव्यमविशेषितम् ॥५३॥ इति निषधपर्वतः, प्रसंगात् शीताखरूप च॥ स्थापना । हिमवता महता च कनीयसा, जलधिना निषधेन च ये त्रिधा । तदिह दक्षिणपार्श्वमिहोदितं. बहुविध नियतानियतारकैः॥५४॥ (द्रुतविलं) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे, सो निर्गलितार्थसार्थसुभगः पूर्णः सुखं षोडशः॥४५५॥ ॥ इति श्रीलोकप्रकाशे षोडशः सर्गः समाप्तः॥
॥ अथ सप्तदशः सर्गःप्रारभ्यते ॥ | मध्ये द्वयोः पर्वतयोर्नीलवनिषधाख्ययोः। भात्यायतचतुरस्र, क्षेत्रं महाविदेहकाः॥१॥ सर्वक्षेत्रगुरुत्वान्महाप्रमाणाङ्गजनयुतत्वाद्वा । इदमुत महाविदेहाभिधसुरयोगान्महाविदेहाख्यम् ॥२॥ (गीतिः) त्रयस्त्रिंशद्योजनानां, सहस्राणि च षट्शती। युक्ता चतुरशीत्याऽस्य, व्यासः कलाचतुष्टयम् ॥३॥ वर्षवर्षधराद्रीणामन्येषां तु जिनेश्वरः। अन्त्यप्रदेशपब्जिा , सा जीवेति निरूपिता॥४॥ अस्मिन् क्षेत्रे पुनर्मध्यप्रदेशपडिरायता। सा प्रत्यञ्चा भवेत्पूर्णलक्षयोजनसंमिता ॥५॥ततश्चापेक्ष्य तां जीवां, धनुःपृष्ठद्वयं भवेत् । तत्रैक दक्षिणाधिस्पृगुत्तराधिश्रितं परम् ॥६॥ एवं शरोऽपि द्विविधो, दक्षिणोत्तरभेदतः । पूर्वापरैवं बाहापि,
M
For Private Personal Use Only
in Educanum
inelibrary.org