SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे १६ सर्गे हिमवति ॥ १९१ ॥ Jain Education यावद् द्वाभ्यां योजनाभ्यां सुमेरुर्दूरतः स्थितः । तावत्तत्संमुखं याता, कामुकीव रसाकुला ॥ ३७ ॥ वक्षस्कारगिरेर्विद्युत्प्रभस्याधो विभागतः । परावृत्ता पश्चिमातो, लज्जितेवाभिसारिका ॥ ३८ ॥ द्वेधाऽपरविदेहांश्च, कुर्वती सरितां श्रिता । अष्टाविंशत्या सहस्रैरेकैकविजयोद्गतैः ॥ ३९ ॥ श्रिताऽम्भोधिप्रवेशे च, मूलतः सर्वसङ्ख्यया । नदीनां पञ्चभिर्लक्षैः, सद्वात्रिंशत्सहस्रकैः ॥ ४० ॥ अधो जयन्तद्वारस्य, विभिद्य जगतीतटम् । प्रविष्टा पश्चिमाम्भोधौ, शीतोदाख्या महानदी ॥ ४१ ॥ नवभिः कुलकम् ॥ पञ्चाशयोजनान्यस्या, विष्कम्भो | हदनिर्गमे । एकं योजनमुद्वेधः, स कुण्डनिर्गमावधि ॥ ४२ ॥ व्यासेऽशीतिश्च वर्द्धन्ते, धनूंषि प्रति योजनम् । तत्पश्चयोजनशतव्या सेयं वार्द्धिसंगमे ॥४३॥ तत्रोद्वेषो योजनानि, दशैतस्याश्च जिह्निका । पञ्चाशद्विस्तृता द्वे च, योजने मेदुरायता ॥ ४४ ॥ चत्वारि योजनशतान्यशीतिश्च तथोपरि । कुण्डस्यायामविष्कम्भौ, दशोदेधश्च कीर्त्तितः ॥ ४५ ॥ चतुःषष्टियोजनानि, द्वीपोऽस्या विस्तृतायतः । योजनार्द्धमुच्छ्रितोऽद्भ्यो, गङ्गावद्भवनादिकम् ॥ ४६ ॥ शीताप्येवं नीलवतो, निर्गता केसरिहदात् । शीताकुण्डे निपत्यातः, प्रस्थिता दक्षिणामुखी ॥ ४७ ॥ प्राग्वद्विदधती द्वेधा, पञ्चोत्तरकुरुहदान् । नदीसह सैश्चतुरशीत्योदकुरुगैः श्रिताः ॥ ४८ ॥ प्राप्तोत्तरकुरुप्रान्ते, भद्रशालवनं क्रमात् । असंप्राप्ता योजनाभ्यां द्वाभ्यां मन्दरभूधरम् ॥ ४९ ॥ गिरेर्माल्यवतो - ऽधस्तात्प्रस्थिता पूर्वसंमुखी । द्वेधा विदधती पूर्वविदेहान् पथि चाश्रिता ॥ ५० ॥ अष्टाविंशत्या सहस्रैरे कैकविजयोद्गतैः । नदीनां पञ्चभिर्लक्षैः सद्वात्रिंशत्सहस्रकैः ॥ ५१ ॥ सर्वाग्रेणेति संयुक्ता, विभिद्य जगतीत For Private & Personal Use Only निषधाधि कारः २० २५ ॥ १९१ ॥ २८ inelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy