SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Jain Education मित्यपि । अपर विदेहकूटं ८, कूटं च रुचकाह्रयम् ९ ॥ २९ ॥ निषधे नव कूटानि श्रेण्या स्थितानि पूर्ववत् । आधे चैत्यं देवदेव्योऽन्येषु कूटसमाभिधाः ॥ २२ ॥ तिगिञ्छिस्तु पौष्परजस्तत्प्रधान इह हृदः । तिगिन्छिनामा चत्वारि, सहस्राण्ययमायतः ॥ २३ ॥ विस्तीर्णश्च द्वे सहस्रे, उद्विद्धो दशयोजनीम् । पद्महदसमसङ्ख्यैः, पद्मः संशोभितोऽभितः ॥ २४ ॥ विष्कम्भादि तु पद्मभ्यस्तेभ्य एषां चतुर्गुणम् । यथाऽत्र स्यान्मूलपद्मं, चतु| जनसंमितम् ॥ २५ ॥ भवनं मूलपद्मेऽत्र, श्रीदेवीभवनोपमम् । धीदेवी स्वामिनी तस्य, सैकपल्योपम| स्थितिः ॥ २६ ॥ दाक्षिणात्यतोरणेन, तिगिच्छिहदतोऽमुतः । तटिनी हरिसलिला, निर्गता दक्षिणामुखी ॥२७॥ योजनानां सहस्राणि सप्तोपरि शतानि च । चत्वारि चैकविंशानि, कलां च पर्वतोपरि ॥ २८ ॥ गत्वाऽसौ हरिस लिलाकुण्डे पतति पर्वतात् । दक्षिणेन तोरणेन, तस्मान्निर्गत्य कुण्डतः ॥ २९ ॥ हरिवर्षपूर्वभागं, विभजन्ती द्विधा किल । एकेन योजनेनार्वाकू, गन्धापातिधराधरात् ॥ ३० ॥ चलिता प्राङ्मुखीभूय, विशति प्राच्यवारिधौ । षट्पञ्चाशच्छैवलिनीसहस्रैः परिवारिता ॥ ३१ ॥ त्रिभिर्विशेषकम् । प्रमाणं जिह्निकाकुण्डद्वीपप्रवाहद्विगम् । हरिकान्तासमं सर्व, ज्ञेयमत्राविशेषितम् ॥ ३२ ॥ उत्तराहतोरणेन, तिगिञ्छिहदतस्ततः । शीतोदेति निर्झरिणी, निर्गतोत्तरसम्मुखी ॥ ३३ ॥ प्रागुक्तमानमुल्लङ्घ्य, क्षेत्रं क्षितिधरोपरि । शीतोदाकुण्डे पतति, वज्रजिह्निकया नगात् ॥ ३४ ॥ कुण्डादस्मादौत्तराहतोरणेनोत्तरामुखी । यान्ती कुरुहदान् पश्च, खलेव कुर्वती द्विधा ॥ ३५ ॥ नदीसहस्रैश्चतुरशीत्या पथ्याश्रिता क्रमात् । यान्ती देवकुरुप्रान्ते, भद्रशालवनान्तरे ॥ ३६ ॥ ational For Private & Personal Use Only ५ १० १४ jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy