________________
लोकप्रकाशे १६ सर्गे हिमवति
॥ १९० ॥
Jain Educatio
शतं तेषां देहे पृष्ठकरण्डकाः ॥ ६ ॥ चतुःषष्टिं च दिवसान्, विधायापत्यपालनाम् । खर्लोकमेव ते यान्ति, कालश्च सुषमाऽन्वहम् ॥ ७ ॥ क्षेत्रानुभावः सर्वं च, बलसंहननादिकम् । अनन्तगुणपर्यायं ज्ञेयं हैमवतादिह ॥ ८ ॥ इति हरिवर्षक्षेत्रं ॥ स्थापना ।
हरिवर्षस्योत्तरान्ते, निषधो नाम पर्वतः । स चतुर्योजनशतोलुङ्गो रक्तसुवर्णजः ॥ ९ ॥ योजनानां शतं भूमौ मग्नोऽन्तस्पृष्टवारिधिः । दाक्षिणात्या भित्तिरिव, महाविदेहवेश्मनः ॥ १० ॥ योजनानां सहस्राणि, षोडशाष्टौ शतानि च । द्विचत्वारिंशदाख्यानि, विष्कम्भोऽस्य कलाद्वयम् ॥ ११ ॥ त्रयस्त्रिंशत्सहस्राणि, सप्तपञ्चाशता युतम् । शतमेकं सप्तदश, कलाश्च निषधे शरः ॥ १२ ॥ योजनानां सहस्राणि चतुर्नवतिरेव च । पट्ट्पञ्चाशं शतमेकं प्रत्यञ्चाऽस्य कलाद्वयम् ॥१३॥ लक्षं चतुर्विंशतिश्च सहस्राणि शतत्रयम् । षट्चत्वारिंशतोपेतं धनुःपृष्ठं कला नव ॥ १४ ॥ विंशतिश्च सहस्राणि पञ्चषष्टियुतं शतम् । सार्द्धं कलादयं ज्ञेयं, बाहाऽस्यैकैकपार्श्वतः ॥ १५ ॥ कोटीनां शतमेकं द्विचत्वारिंशच कोटयः । चतुष्पञ्चाशच लक्षाः, षट्षष्टिश्च सहस्रकाः ॥ १६ ॥ सैकोनसप्ततिः पञ्चशती तथाऽधिकाः कलाः । अष्टादशास्य प्रतरगणितं भुवि कीर्त्तितम् ॥ १७॥ सप्तपञ्चाशत्सहस्राः, कोटीनां कोटयः पराः । अष्टादश तथा लक्षाः, षट्षष्टिरथ चोपरि ॥ १८ ॥ सहस्राणि योजनानां, सप्तविंशतिरेव च । शतानि नव सैकोनाशीतीन्यत्र भवेद् घनम् ॥ १९ ॥ सिद्धायतनकूटं १ च द्वितीयं | निषधाभिधम् २ | हरिवर्षाभिधं कूटं ३, पूर्वविदेहसंज्ञकम् ४ ॥ २० ॥ हरिकूटं ५ धृतिकूटं ६, शीतोदाकूट ७
ational
For Private & Personal Use Only
हरिवर्षनिपधाधि०
२०
२५
॥ १९०॥
२६
ainelibrary.org