________________
कामा पूर्ववत् ॥ ९२ ॥ ततो गिरेः । प्रौढपयतका, कलाऽत्रा
विष्कम्भावुद्वेधो दशयोजनी ॥९१॥ द्वीपस्यायामविष्कम्भौ, द्वात्रिंशद्योजनानि च। जलात्समुच्छ्रयः क्रो द्वयं शेषं तु पूर्ववत् ॥ ९२॥ इति महाहिमवान् पर्वतः॥
उत्तरस्यां हरिवर्ष, महाहिमवतो गिरेः। प्रौढपर्यङ्कसंस्थानमन्ताभ्यां वारिधिं स्पृशत् ॥९३॥ व्यासोऽस्याष्टौ सहस्राणि, योजनानां चतुःशती । तथैकविंशतिश्चैका, कलानाथ शरं त्रुवे ॥९४॥ सहस्राः षोडश त्रीणि, योजनानां शतानि च । युक्तानि पञ्चदशभिः, कलाः पञ्चदशोपरि ॥९५॥ त्रिसप्ततिः सहस्राणि, जीवा नव शतानि च । एकोत्तराण्यथ कलाः, सार्द्धाः सप्तदशोपरि ॥ ९६ ॥ धनुःपृष्टं सहस्राणि, चतुरशी-18 तिरेव च । षोडशाट्यान्यथ कलाश्चतस्रः परिकीर्तिताः॥ ९७ ॥ त्रयोदश सहस्राणि, त्रिशती चैकषष्टियुक। योजनानां षट् कलाश्च, सार्द्धा पाहै कपार्श्वतः॥९८॥ चतुष्पश्चाशच कोट्यो, योजनानां तथा पराः । सप्तचत्वारिंशदेव, लक्षाः किल तथोपरि ॥९९॥ त्रिसप्ततिः सहस्राणि, सप्तत्याख्याऽष्टशत्यथ । कला: सप्तात्र सकलं, गणितं प्रतरात्मकम् ॥४०॥ मध्येऽस्य गन्धापातीति, वृत्तवैताढयपर्वतः। खरूपमस्य पूर्वोक्तशब्दापातिसमं समम् ॥१॥ पद्मनामा सुरस्त्वस्य, स्वाम्येकपल्यजीवितः। स्वरूपं सर्वमेतस्य, ज्ञेयं विजयदेववत् ॥२॥ लक्षमेकं सहस्राश्च, द्वादश व्यधिका इह । हरिवर्षाभिधक्षेत्रे, नद्यः प्रोक्ता जिनेश्वरैः॥३॥ क्षेत्रे पुनर्वसन्त्यत्र, नरा युगलधर्मिणः । क्रोशद्वयसमुत्तुङ्गाः, सल्लक्षणा विचक्षणाः॥४॥ आयुरुत्कर्षतस्त्वेषां, पूर्ण पल्योपमद्वयम् । पल्योपमासङ्ख्यभागहीनं तच्च जघन्यतः॥५॥ते सकृत्षष्ठभक्तान्ते, बदरप्रमिताशिनः । अष्टाविंशं
02999999990707
Jain Educa
w.jainelibrary.org
t
For Private 8 Personal Use Only
ional
( P
N