________________
लोकप्रकाशे १६ सर्गे
हिमवति
1126011
Jain Education &
वमेते मृत्वा समाधिना ॥ २४ ॥ एवं वक्ष्यमाणहैमवतादियुग्मिनोऽपि हि । षण्मासशेषे सुवतेऽपत्यान्यायुषि नान्यथा ॥ २५ ॥ तथोक्तं प्रथमारकखरूपाधिकारे जम्बूद्वीपप्रज्ञप्तौ, अन्तरदीपाधिकारे जीवाभिगमे च - “छम्मासावसेसाउया जुगलं पसवंती" ति ॥ इति हिमवान् पर्वतः ॥ स्थापना ।
क्षेत्रं विभाति हिमवन्महाहिमवदन्तरे । अविभक्तं द्रव्यमिव, द्वाभ्यां ताभ्यां सुरक्षितम् ॥ २६ ॥ द्वाभ्यां पूर्वापरान्ताभ्यां संस्पृष्टलवणार्णवम् । हारि हैमवताभिख्यं वर्यं पर्यङ्कसंस्थितम् ॥ २७ ॥ ददाति हेम युग्मि भ्य, आसनादितया ततः । यद्वा देवो हैमवतः खामी हैमवतं ततः ॥ २८ ॥ द्वे सहस्रे योजनानां शतं पश्चोत्तरं तथा । कलाः पश्चैव विष्कम्भः, क्षेत्रस्यास्य निरूपितः ॥ २९ ॥ तथा शतानि षट्त्रिंशचतुरशीतिरेव च । योजनानि चतस्रश्च, कलाः शर इह स्मृतः ॥ ३० ॥ सप्तत्रिंशत्सहस्राणि योजनानां शतानि षट् । चतुःसप्ततिरस्य ज्या, न्यूनाः कलाश्च षोडश ॥ ३१ ॥ अष्टात्रिंशत्सहस्राणि, तथा सप्त शतानि च । चत्वारिंशानि कोदण्डपृष्ठमस्य कला दश ॥ ३२ ॥ सहस्राः षट् सप्तशती, पञ्चपञ्चाशदन्विता । तिस्रः कलाश्च बाहाऽत्र, प्रत्येकं पार्श्वयोर्द्वयोः ॥ ३३ ॥ अत्र क्षेत्रफलं कोट्यः, षट् लक्षाणि द्विसप्ततिः । त्रिपञ्चाशत्सहस्राणि, योजनानां शतं तथा ॥ ३४ ॥ पञ्चचत्वारिंशदाव्यं, कलाः पञ्च तथोपरि । अष्टौ च विकलाः प्रोक्तं, खण्डैर्योजनसंमितैः ॥ ३५ ॥ सर्वरत्नमयो वृत्तवैताढ्यो धरणीधरः । मध्यभागे विभात्यत्र, पल्यवत्सर्वतः समः ॥ ३६ ॥ जम्बू
national
For Private & Personal Use Only
हिमवद्हैर
ण्यवता
धि
२०
२५
॥ १८७॥
२७
My jainelibrary.org