SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ वेइयाहिं दोहिं वणसंडेहिं सं परिक्खित्ता, वेड्यावणसंडवण्णओ भाणियवो” अथ गङ्गामहानद्या, यत्राम्भोनिधि| संगमः । तत्र तीर्थं मागधाख्यं, तस्येशो मागधः सुरः ॥ ५५ ॥ एवं सिन्धुनदीवार्डियोगे प्रभासनामकम् । एतयोरन्तराले च वरदामं पयोनिधौ ॥ ५६ ॥ तथोक्तं जम्बूद्वीपप्रज्ञप्तिवृत्तौ - " गङ्गा मागधतीर्थस्थाने समुद्रं प्रविशति तथा प्रभासं नाम तीर्थ यत्र सिंधुनदी समुद्रं प्रविशति” तीर्थ नामावतरणमार्गोऽम्भोधौ तटाकवत् । तीर्थस्यार्थो भाव्य एवं शीताशीतोदयोरपि ॥ ५७ ॥ तदुक्तं स्थानाङ्गवृत्तौ - “ तीर्थानि चक्रवर्त्तिनः समुद्रशीतादिमहानद्यवतारलक्षणानि तन्नामक देवनिवासभूतानि, तत्र भरते| रवतयोस्तानि पूर्वदक्षिणापरसमुद्रेषु, विजयेषु तु शीताशीतोदामहानद्योः पूर्वादिक्रमेणैवे” ति तृतीये | स्थानके । एषां तीर्थसहनाम्नां देवानां स्वस्वतीर्थतः । योजनेषु द्वादशसु राजधान्यः पयोनिधौ ॥ ५८ ॥ कृताष्टमतपाश्चक्री, रथनाभिस्पृगम्भसि । स्थित्वा वाद्ध खनामाङ्कं शरं मुक्त्वा जयत्यमून् ॥ ५९ ॥ प्रतीच्यतोरणेनाथ, इदात्तस्माद्विनिर्गता । गत्वा प्रतीच्यामावृत्ता, सिन्ध्वावर्त्तनकूटतः ॥ ६० ॥ दक्षिणाभिमुखी शैलात्कुण्डे निपत्य निर्गता । प्रत्यग्भागे तमिस्राया, भित्त्वा वैताढ्यभूधरम् ॥ ६१ ॥ ततः पश्चिमदिप्रभागे, विभिद्य जगतीमधः । विशत्यम्भोनिधिं सिन्धुगङ्गाख सेव युग्मजा ॥ ६२ ॥ त्रिभिर्विशेषकं । गङ्गावत्सर्वमस्याः स्यादारभ्य हद निर्गमात् । खरूपमब्धिसङ्गान्तं, सिन्धुनामविशेषितम् ॥ ६३ ॥ वैताढ्यतो दक्षिणस्यां सरितोः सिन्धुगङ्गयोः । विलानि स्युर्नव नव, पूर्वपश्चिम कूलयोः ॥ ६४ ॥ उदीच्यामपि षटूत्रिंशत्तथैव Jain Educationational For Private & Personal Use Only १० १४ w.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy