SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे १६ सर्गे हिमवति ॥ १८४ ॥ Jain Education स्वरूपम् शोभितम् ॥ ४३ ॥ सोपानश्रेणयः सर्वा, वज्रस्तम्भाः सतोरणाः । रत्नालम्बनबाहाण्या, रैरूप्य- गङ्गातत्कुंड | फलकाश्चिताः ॥ ४४ ॥ गङ्गाद्वीपश्च भात्यस्मिन्, द्वौ क्रोशावुच्छ्रितो जलात् । अष्टौ च योजनान्येष, विष्कम्भायाममानतः ॥ ४५ ॥ गङ्गादीपोपरि गङ्गाभवनं पीठिकादियुक् । खरूपतो मानतश्च, श्रीदेवी भवनोपमम् ॥ ४६ ॥ दाक्षिणात्यतोरणेन, गङ्गाप्रपातकुण्डतः । निर्गत्य वैताढ्योपान्ते, नदीसप्तसहस्रयुक् ॥ ४७ ॥ खण्डप्रपाताप्राग्भागे, भित्त्वा वैताढ्यभूधरम् । दाक्षिणात्य सप्तनदीसहस्रपरिवारिता ॥ ४८ ॥ एवं चतुर्दशनदीसहस्रा पूरिताऽभितः । पूर्वतो जगतीं भित्त्वा गङ्गा विशति वारिधिम् ॥ ४९ ॥ त्रिभिर्विशेषकम् ॥ सक्रोशानि योजनानि, षडस्या हृदनिर्गमे । व्यासः क्रोशार्द्धमुद्वेधः, कुण्डपातावधिः स च ॥ ५० ॥ तथोक्तं जम्बूद्वीपप्रज्ञप्तिसूत्रे - " गंगामहानई पवाहे छक्कोसाइं जोअणाई विकखंभेणं पण्णत्ता, अद्धको उद्देहेणं " समवायाङ्गे तु - " गंगासिंधूओ नदीओ णं पवहे सातिरेगाई चडवीसं कोसाई वित्थरेणं पण्णत्ता" इत्युंक्तमिति ज्ञेयं । कुण्डोद्गमादनु व्यासो, योजनं योजनं प्रति । पार्श्वद्वये समुदितो, धनूंषि दश वर्द्धते ॥ ५१ ॥ एवं च-वारिधेः संगमे सार्द्धा, द्वाषष्टियोंजनान्यसौ । मौलाद्दशन्नो ययासो, नदीनामब्धिसंगमे ॥ ५२ ॥ व्यासात्पञ्चाशत्तमोऽंशः, सर्वतोद्वेष ईरितः । क्रोशस्यार्द्धं ततो मूले, प्रान्ते सक्रोशयोजनम् ॥ ५३ ॥ वेदिकावनखण्डौ च, प्रत्येकं पार्श्वयोर्द्वयोः । महानदीनां सर्वासां दृष्टौ दृष्टजगत्रयैः ॥ ५४ ॥ तथोक्तं जम्बूद्वीपप्रज्ञप्तिसूत्रे गङ्गावर्णने -" उभओ पासिं दोहिं परमवर१ उभयतः सिकताभागस्यैकत्र विवक्षणात्, यद्वा कुण्डनिर्गमावसरे कदाचिदधिको व्यासः । For Private & Personal Use Only 2 २५ ॥ १८४॥ २७ ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy