________________
Jain Educat
संभवति । ततश्च तत्तत्परिधिक्षेत्र परिक्षेपपद्मसंख्याविस्तारान् परिभाव्य यत्र यावत्यः पतयः संभवन्ति तत्र तावतीभिः पङ्गिभिरेक एव परिक्षेपो ज्ञेयः पद्मानामेकजातीयत्वात्, एवं च पञ्चलक्षयोजनात्मके हदक्षेत्रफले तानि सर्वाण्यपि पद्मानि सुखेन मान्त्येव, पद्मरुद्धक्षेत्रस्य सर्वसंकलनया विंशतिः सहस्राणि पञ्चाधि कानि योजनानां षोडशभागीकृतस्यैकयोजनस्य त्रयोदश भागा इत्येतावत एव संभवात् इत्यधिकं तु उ० श्रीशान्तिचन्द्रगणिकृत जम्बूद्वीपप्रज्ञप्तिवृत्तितोऽवसेयं, ततः पद्महदाद्गङ्गा, प्राच्यतोरणनिर्गता । योजनानां पञ्चशतीं, गिरौ पूर्वेण गच्छति ॥ ३६ ॥ गङ्गावर्त्तनकूटस्याधस्तादावृत्त्य सा ततः । दक्षिणाभिमुखीभूत्वा, प्रवृत्ता पर्वतोपरि ॥ ३७ ॥ त्रयोविंशां पञ्चशतीं, योजनानां कलात्रयम् । सार्द्धं गत्वा दक्षिणस्यां पतेजिकिया नगात् ॥ ३८ ॥ सा च प्रणालिकारूपा, भात्यर्द्धक्रोशमेदुरा । द्विक्रोशदीर्घा सक्रोशषड्योजनप्रविस्तृता ॥ ३९ ॥ वाज्रिकी व्यात्तमकरवक्त्राकारा तयाऽथ सा । सातिरेकं योजनानां शतमेकं पतत्यधः ॥ ४० ॥ योजनानि दशोदिद्धे, षष्टिं च विस्तृतायते । कुण्डे गङ्गाप्रपाताख्ये, चारुमुक्तावलीसमा ॥ ४१ ॥ युग्मं ॥ तथाहुः क्षमाश्रमणपादाः- “ आयामो विखंभो सट्ठि कुंडस्स जोअणा हुंति । नउअसयं किंचूणं परिही दसजोअगोगाहो ॥ ४२ ॥” इति वृहत्क्षेत्रसमासे, उमाखातिकृतजम्बूद्वीपसमासे करणविभावनायां च - 'मूले पन्नासं जोअणवित्थारो उवरि सट्ठि' इति विशेषोऽस्ति इत्थं च कुण्डस्य यथार्थनामोपपत्तिरपि भवति, एवमन्येध्वपि यथायोगं ज्ञेयमिति । तच्च कुण्डं वेदिकया, वनखण्डेन वेष्टितम् । पूर्वापरादक्षिणामु, सोपानश्रेणि
mational
For Private & Personal Use Only
१४
www.jainelibrary.org