________________
लोकप्रकाशे १६ सर्गे हिमवति
॥१८३॥
दक्षिणोत्तरपूर्वतः ॥ २३ ॥ पञ्चचापशतोत्लुङ्ग, तदर्द्धव्यासमेककम् । द्वारं तत्राध भवनमध्येऽस्ति मणिपीठिका ॥ २४ ॥ सापि पञ्चशतधनुर्व्यासायामार्द्धमेदुरा । उपर्यस्याः शयनीयं श्रीदेवी योग्यमुत्तमम् ॥ २५॥ षड्जातीयैः परिक्षेपैर्वेष्टितं मूलपङ्कजम्। क्रमादर्द्धार्द्धमानाजाः, परिक्षेपाः समेऽप्यमी॥२६॥ अष्टोत्तरं शतं पद्माः, प्रथमे परिधौ स्थिताः । मूलपद्मादर्द्धमानाः, श्रीदेवीभूषणैर्भृताः ॥ २७ ॥ वायूत्तरेशानदिक्षु, सामानिकसुधाभुजाम् । चतुःसहस्री पद्मानां तावतां परिकीर्तिताः ॥ २८ ॥ महत्तराणां देवीनां, प्राक् चत्वार्यम्बुजानि च । सहस्राण्यष्ट चाग्नेय्यामभ्यन्तरसभाजुषाम् ॥ २९ ॥ सहस्राणि दशाजानामपाच्यां मध्यपर्षदाम् । द्वादशामसहस्राणि, नैर्ऋत्यां बाह्यपर्षदाम् ॥३०॥ सेनापतीनां सप्तानां, प्रत्यक् सप्ताम्बुजानि च । द्वितीयोऽयं परिक्षेपो, मूलपद्मस्य वर्णितः॥ ३१ ॥ आत्मरक्षिसहस्राणां षोडशानां चतुर्दिशम् । चतुःसहस्री प्रत्येकं, परिवेषे तृतीयके ॥ ३२ ॥ त्रयः परे परिक्षेषा, अभियोगिपयोरुहाम्। द्वात्रिंशत्प्रथमे लक्षा, अभ्यन्तराभियोगिनाम् ॥ ३३ ॥ चत्वारिंशत्पद्मलक्षा, मध्ये मध्याभियोगिनाम् । लक्षाणामष्टचत्वारिंशद्वाह्ये बाह्यसेविनाम् ॥ ३४ ॥ कोट्येका विंशतिर्लक्षाः, पद्मानां सर्वसंख्यया । सहस्राणि च पञ्चाशच्छतं विंशतिसंयुतम् ॥ ३५ ॥ अत्र षट् परिक्षेपा इति षड्जातीयाः परिक्षेपा इति वाच्यं तथाहि - आधा मूलपद्मार्द्धमाना जातिः, द्वितीया तच्चतुर्थभागमाना जातिः, यावत्षष्टी चतुःषष्टितमभागमाना जातिरिति । अन्यथा तु योजनात्मना सहस्त्रत्रयात्मके धनुरात्मना चत्वारिंशल्लक्षाधिकद्विकोटिप्रमिते हृदपरमपरिधौ षष्ठपरिक्षेपपद्मानां षष्टिकोटिधनुः क्षेत्रमातव्यानामेकया पङ्कयाऽवकाशो न
Jain Education national
For Private & Personal Use Only
पद्महद स्व०
२०
२५
॥१८३॥
२८
w.jainelibrary.org