SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ मर्द्धपल्यमायुरुत्कर्षतोऽपि यत् ॥ १२॥ एवं वक्ष्यमाणा अपि देव्यो ज्ञेयाः । वक्ष्यमाणपर्वतेषु, यानि चैत्यानि येऽपि च । प्रासादा देवतानां ते, सर्वेऽवत्यैः समाः स्मृताः ॥ १३ ॥ गिरेरस्योपरितले, इदः पद्मदाभिधः । योजनानि दशोद्विद्धः, सहस्रयोजनायतः॥ १४ ॥ शतानि पञ्च विस्तीर्णो, वेदिकावनमण्डितः। चतुर्दिशं तोरणाव्यत्रिसोपानमनोरमः॥१५॥ अयं च वक्ष्यमाणाश्च, महापद्मदादयः। सर्वे पूर्वापरायामा, दक्षिणोत्तरविस्तृताः॥१६॥ तथाहु:-"हिमवंतसेलसिहरे, वरारविंदद्दहो सलिलपुण्णो। दसजोअणावगाढो विच्छिन्नो दाहिणुत्तरओ॥१७॥” तस्य मध्ये पद्ममेकं, योजनायतविस्तृतम् ।। अर्द्धयोजनबाहल्यं, तावदेवोच्छ्रितं जलात्॥१८॥जले मग्नं योजनानि, दशैतज्जगतीवृतम्। जम्बूद्वीपजगत्याभा, सा गवाक्षालिराजिता ॥१९॥ किंत्वसौ योजनान्यष्टादशोचा सर्वसंख्यया । जलेऽवगाढा दश यद्योजनान्यष्ट चोपरि ॥ २०॥ यत्तु जम्बूद्वीपप्रज्ञप्तिमूलसूत्रे 'जंबुद्दीवजगइप्पमाणा' इत्युक्तं तज्जलावगाहप्रमाणमविवक्षित्वेति तवृत्तौ । किंच-वज्रमूलं रिष्ठकन्दं, वैडूर्यनालबन्धुरम् । वैडूर्यबाह्यपत्रं तज्जाम्बूनदान्तरच्छदम् ॥२१॥ अत्रायं विशेषोऽस्ति बृहत्क्षेत्रविचारवृत्त्यादौ-बाह्यानि चत्वारि पत्राणि वैडूर्यमयानि, शेषाणि तु रक्तसुवर्णमयान्युक्तानि, किंच-जंबूद्वीपप्रज्ञप्तिसूत्रे जाम्बूनदमीषद्रक्तस्वर्ण, तन्मयान्यभ्यन्तरपत्राणि, सिरिनिलयक्षेत्रविचारवृत्तौ तु पीतवर्णमयान्युक्तानीति ज्ञेयं ॥ तपनीयकेसरवृत्ता सौवर्णी कर्णिका भवेत्तस्य । द्विक्रोशायतवितता कोशोचा श्रीभवनमस्याम् ॥२२॥ (आर्या) एकक्रोशायतमेतत्तथाईक्रोशविस्तृतम् । ऊनक्रोशोन्नतं तत्र, Jain Educat For Private Personal use only Yuw.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy