SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ टयर totबिटि.ब्रिटहरब्रिन्ट । उदीच्यामथ वैताठ्याद्, हिमवद्गिरिसीमया । स्यादुत्तरभरतार्द्ध, पर्यकासनसंस्थितम् ॥ ५८ ॥ अष्टात्रिंशे योजनानां, द्वेशते त्रिकलाधिके । विष्कम्भतोऽथ बाहाऽस्य, प्रत्येक पार्श्वयोर्द्वयोः॥५९॥ योजनानां शतान्यष्टादश द्विनवतिस्तथा । सार्दाः सप्त कला क्षेत्रफलमस्याथ कीर्त्यते॥६०॥ लक्षास्त्रिंशत्सहस्राणि, द्वात्रिंशदथ चोपरि । शतान्यष्टौ योजनानामष्टाशीतिरथाधिका ॥१॥ कला द्वादश विकला, एकादश प्रकीर्तिताः। उक्तसामान्यभरतवच्छेषं तु शरादिकम् ॥ ६२॥ नितम्बस्य हिमवतो, दाक्षिणात्यस्य सन्निधौ । क्षेत्रेऽस्मिन्नन्तरे गङ्गासिन्धुप्रपातकुण्डयोः॥६३॥ गिरिवृषभकूटाख्य, उच्चत्वेनाष्टयोजनः । द्वे योजने भूमिमग्नश्चारुगोपुच्छसंस्थितः॥ ६४ ॥ मूलेऽसौ योजनान्यष्टौ, मध्ये षडू योजनानि च । चतुष्टयं योजनानामुपर्यायतविस्तृतः ॥६५॥ पञ्चविंशतिरेवाष्टादशैव द्वादशापि च । साधिकानि परिक्षेपो, मूले मध्ये च मूर्ध्नि च ॥६६॥ द्वादशाष्ट च चत्वारि, मूले मध्ये शिरस्यपि । योजनानि क्रमादस्य, व्यासायामौ मतान्तरे ॥१७॥ सप्तत्रिंशत्क्रमात्पञ्चविंशतिर्वादशापि च । साधिकानि परिक्षेपो, मूले मध्ये तथोपरि ॥ ६८॥ इदं च मतदयमपि जम्बूद्वीपप्रज्ञप्तिसूत्रे । मतान्तरे ननु कथं, श्रुते सर्वज्ञमूलके । तुल्यकैवल्यभाजां यदेकमेवाहतां मतम् ॥ ६९॥ अत्रोच्यते-दुर्भिक्षे स्कन्दिलाचार्यदेवर्द्धिगणिवारके । गणनाऽभावतः साधुसाध्वीनां विस्मृतं श्रुतम् । ॥७॥ ततः सुभिक्षे संजाते, सङ्घस्य मेलकोऽभवत् । वलभ्यां मथुरायांच, सूत्रार्थघटनाकृते ॥१॥ १ वृषभकूटस्य शाश्वतगिरिगणे गणनाऽभावात् प्रायःशाश्वतता, तत आद्यान्त्यचक्रिकाले मानद्वयं स्यात् । 2000000292020900000 Ru हो. प्र.३१ Jain Educati o nal For Private Personal use only O w .jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy