________________
अयं च मलयगिरिकृतक्षेत्रविचारवृहकृत्यायभिप्रायः, आवश्यकबृहद्वृत्तिटीप्पनकप्रवचनसारोद्धारवृहद्वृत्तिआवश्यकबृहत्त्याद्यभिप्रायस्त्वयं-गुहायां प्रविशन् भरतः पाश्चात्यपान्थजनप्रकाशकरणाय दक्षिणद्वारे पूर्वदिक्कपाटे प्रथमं योजनं मुक्त्वा प्रथमं मण्डलमालिखति, ततो गोमूत्रिकान्यायेनोत्तरत: पश्चिमदिक्कपाटतोदके तृतीययोजनादौ द्वितीयं मण्डलमालिखति, ततस्तेनैव न्यायेन पूर्वदिकपाटतोदके चतुर्थयोजनादौ तृतीयं, ततः पश्चिमदिग्भित्तौ पञ्चमयोजनादौ चतुर्थ, ततः पूर्वदिग्भित्तौ षष्ठयोजनादौ पञ्चमं यावदष्टचत्वारिंशत्तममुत्तरद्वारसत्कपश्चिमदिकपाटे प्रथमयोजनादौ एकोनपश्चाशत्तमं चोत्तरदिगद्वारसत्कपूर्वदिक्कपाटे द्वितीययोजनादावालिखति, एवमेकस्यां भित्तौ पञ्चविंशतिरपरस्यां चतुर्विशतिरित्येकोनपञ्चाशत् मण्डलानि भवन्तीति ॥ दाक्षिणात्तोदकात्सप्तदशभिर्योजनैः परा । अस्त्युन्मग्नजलानामनदी नियोजनातता ॥ ४० ॥ द्वादशयोजनायामा, पूर्वभित्तिविनिर्गता । विभिद्य पश्चिमा भित्तिं, प्रविष्टा सिन्धुनिम्नगाम् ॥४१॥ अस्यां पतति 8 यत्किञ्चिदु, दृषत्काष्ठनरादिकम् । तत्सर्वमद्भिराहत्य, बहिः प्रक्षिप्यते स्थले ॥ ४२ ॥ ततः परं योजनयोयोरतिक्रमे परा । स्यान्निनगजलानामनदी नियोजनातता ॥४३॥ द्वादशयोजनायामा, पूर्वभित्तिविनिर्गता । प्रत्यग्भित्तिं प्रविभिद्य, सिन्धुं विशत्यसावपि ॥४४॥ अस्यां पतति यत्किञ्चित्तृणकाष्ठनरादिकम् । अघो मजति । १ मण्डलस्योभयपार्श्वयोर्योजनप्रकाशकत्वेन तिरश्चि यावद्गहायामप्रकाशकत्वेन च युक्तोऽयं, क्षेत्रविचाराद्यभिप्रायस्तु द्वयोर्गुहयोः | समुदितयोमण्डलान्याश्रित्य स्यात् तदा न कोऽपि विरोधः ।
20009999999
Jain Education
a
l
For Private & Personel Use Only
HIONainelibrary.org