________________
लोकप्रकाशे १६ सर्गे भरते
॥ १७९ ॥
Jain Education
नामतिक्रमे । जम्बुद्वीपेऽपरत्रैषां राजधान्यो यथायथम् ॥ २४ ॥ वैताव्यस्य पर्वतस्य, दे गुहे भवतः क्रमात् । खण्डप्रपाता प्राच्येऽशे, तमिस्रा परतः पुनः ॥ २५ ॥ उन्नते योजनान्यष्टौ तानि द्वादश विस्तृते । नित्यान्धकारगहने, पञ्चाशद्योजनायते ।। २६ ।। दक्षिणस्यामुदीच्यां च, द्वारमेकैकमेतयोः । उच्छ्रितं योजनान्यष्टौ, तानि चत्वारि विस्तृतम् ॥ २७ ॥ नृत्तमालकृत्तमालावेकपल्यायुषौ सुरौ । महर्द्धिकौ विजयवदेतयोः खामिनौ क्रमात् ॥ २८ ॥ प्रतिद्वारं द्वौ कपाटी, वाज्रिको घटितौ सदा । अष्टावष्टौ योजनानि, तुङ्गौ द्वे द्वे च विस्तृत ॥ २९ ॥ यदेह चक्री भरतोऽन्तरभागं जिगीषति । सेनान्या रत्नदण्डेना हतौ तदाऽवसर्पतः ॥ ३० ॥ उद्घाटितस्यैकैकस्य, पश्चाद्भागेऽस्ति तोदकः । चतुर्योजन विष्कम्भायामोऽवष्टम्भ एतयोः ॥ ३१ ॥ हस्तिरत्नं समारुह्य, कुम्भस्थलस्फुरन्मणिः । चक्री तदुद्योतिताध्वा, तमिस्रां प्रविशेगुहाम् ॥ ३२ ॥ तत्र प्रविश्य पाश्चात्य सैन्यप्रका शहेतवे । रत्नेन काकिणीनान्ना, खटीपिण्डावलेखिना ॥ ३३ ॥ ऊर्ध्वाधो योजनान्यष्टौ तिर्यग्द्वादशयोजनीम् । प्रकाशयेोजनं चैकैकं दक्षिणवामयोः ||३४|| आदिमं योजनं मुक्त्वा, प्रथमं मण्डलं लिखेत् । पञ्चचापशताया| मविष्कम्भं भानुसन्निभम् ॥ ३५ ॥ युग्मं ॥ ततोऽपि योजनं मुक्त्वा, द्वितीयं मण्डलं लिखेत् । इत्येवमुत्तरद्वारे, | शेषेऽन्त्ये योजनेऽन्तिमम् ॥ ३६ ॥ एवं च स्यादेकं दाक्षिणात्यप्राक्कपाटोपरि मण्डलम् । द्वे तोदके विचत्वारिंशत्प्रागभित्तावनुक्रमात् ||३७|| ततो द्वे उत्तराह प्राक्तोदकेऽन्त्यं च मण्डलम् । उदीच्यप्राक्कपाटेऽयं, पश्चिमायामपि क्रमः ॥ ३८ ॥ एवमेकोनपञ्चाशत्पूर्वभित्तौ भवन्ति वै । तावन्त्यपरभित्तौ तत्तुल्यानि संमुखानि च ॥ ३९ ॥
tional
For Private & Personal Use Only
वैताव्यगु
हा ख०
१५
२०
२५
॥ १७९ ॥
२७
www.jainelibrary.org