SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे क्षेत्रलोके सर्गः १२ ॥१३४॥ लोकस्य वृत्तत्वात्प्रतिपति प्रदेशको । हीयेते तेन लोकान्ते, पतिश्चतुष्पदेशिका ॥ ६४ ॥ एकतो विप्रदेशत्वं, चतुष्प्रदेशताऽन्यतः। ततो हि मुरजाकारो, भवेल्लोकदिशामिह ॥६५॥ एकतो यस्य संकीर्ण, मुखं पृथुलम- II दिमिरूपन्यतः । स मृदङ्गविशेषः स्यान्मुरजेति प्रसिद्धिभाक् ॥६६॥ यथैकस्मिन् खप्रतरे, भाविता मुरजातिः । णम् सर्वेष्वपि प्रतरेषु, तथा भाव्या दिगाकृतौ॥३७॥ स्थापना।शकटोवीस्थिताः किंचालोकव्यपेक्षया दिशतुण्डंत शकटस्यास्य, रुचकोपरि भाव्यताम् ॥ ६८॥ रुचकस्योपरितनं, यत्प्रदेशचतुष्टयम् । विमलाया दिशस्तच. प्रोक्तमादितया जिनैः ॥ ६९॥ तत्समश्रेणिकैस्तावन्मितैर्जाता प्रदेशकैः। ऊर्ध्वलोकालोकगता, विमला दिगुदीरिता ॥ ७० ॥ रुचकस्याधस्तनं यत्प्रदेशानां चतुष्टयम् । तत्तमाया दिशः प्रोक्तं, जिनैरादितया श्रुते ॥७१॥ तन्मूला विमला तुल्या, किंत्वधोगामिनी तमा । तदिमे रुचकाकारे, चतुष्पदेशविस्तृते ॥७२॥ द्वयोर्द्वयोर्दिशोरन्तश्छिन्नमुक्तावलीसमाः । एकप्रदेशा विदिशो, लोकालोकान्तसीमया ॥ ७३ ॥ दिशः स्युर्द्विप्रदेशाद्या, ट्युत्तरा रुचकोद्भवाः। विदिशोऽनुत्तरा एकप्रदेशा रुचकोद्भवाः॥७४ ॥ दिशोऽप्येता असं-| ख्येयप्रदेशा लोकसीमया। अलोकापेक्षया सर्वाः, स्युरनन्तप्रदेशिकाः॥७॥ प्रत्येकमासां सर्वासां, दिशां सर्वे प्रदेशकाः। कृतयुग्ममिताः सन्ति, सिद्धान्तपरिभाषया ॥७६॥ तदुक्तमाचाराङ्गनियुक्तौ-सवा य हवंति कडजुम्मेति । कृतयुग्मादिवरूपं चैवं-चतुष्केण ह्रियमाणश्चतुःशेषो हि यो भवेत् । अभावाद्भागशेषस्य, संख्यातः कृतयुग्मकः॥१॥ तदुक्तं भगवत्यष्टादशशतकचतुर्थोद्देशकवृत्ती-"कृतं सिद्धं पूर्ण, ततः परस्य ॥१३४॥ Jain Educati o nal All For Private Personal Use Only nelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy