SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ त्रयाणामपि निर्दिष्टः, श्रवणघ्राणचक्षुषाम् ॥९७॥ अङ्गुलानां पृथक्त्वं च, पृथुत्वं रसनेन्द्रिये । खखदेहप्रमाणं च, भवति स्पर्शनेन्द्रियम् ॥९८॥ त्वगिन्द्रियं विनाऽन्येषां, चतुर्णा पृथुता भवेत् । आत्माङ्गुलेन सोत्सेधामुलेन स्पर्शनस्य तु ॥ ९९॥ ननूत्सेधाङ्गुलेनैव, मितो देहो भवेत्ततः। मातुं तेनैव युज्यन्ते, तद्गतानीन्द्रिया|ण्यपि ॥ ५००॥ आत्माङ्गुलेन चत्वार्यात्सेधिकेनैकमिन्द्रियम् । तानीत्थं मीयमानानि, कथमौचित्यमियूति ॥१॥ अत्रोच्यते-जिहादीनां पृथुलत्वे, औत्सेधेनोररीकृते । त्रिगव्यूतनरादीनां, न स्याद्विषयवेदिता ॥२॥ तथाहि-त्रिगव्यूतादिमनुजाः, षड्गव्यूतादिकुञ्जराः । खखदेहानुसारात्स्युर्विस्तीर्णरसनेन्द्रियाः ॥ ३ ॥ तेषामान्तरनिवृत्तिरूपं चेद्रसनेन्द्रियम् । उत्सेधाङ्गुलपृथक्त्वमितं स्यादल्पकं हि तत् ॥ ४॥न व्याप्नयात्सर्वजिह्वां, ततोऽतिविदितोऽनया । सर्वात्मना रसज्ञानव्यवहारो न सिद्ध्यति ॥५॥ गन्धादिव्यवहारोऽपि, भावनीयो दिशाऽनया। तत आत्माङ्गुलेनैव, पृथुत्वं रसनादिषु ॥६॥ जघन्यतोऽक्षिवर्जाण्यङ्गुलासंख्येयभागतः। गृह्णन्ति विषयं चक्षुस्त्वङ्गुलसङ्ख्यभागतः ॥७॥ अयं भावः-प्राप्यार्थावच्छेदकत्वात्, श्रवणादीनि जानते। | अङ्गुलासङ्ख्येयभागादपि शब्दादिमागतम् ॥ ८॥ चतुर्णामत एवैषां, व्यञ्जनावग्रहो भवेत् । दृष्टान्तान्नव्यमत्पात्रशयितोद्वोधनात्मकात् ॥९॥ यथा शरावकं नव्यं, नैवैकेनोदबिन्दुना । क्लिद्यते किंतु भूयोभिः, पतद्भि-16 स्तैर्निरन्तरम् ॥१०॥ एवं सुप्तोऽपि नैकेन, शब्देन प्रतिबुध्यते । किंतु तैः पञ्चषैः कर्णे, शब्दद्रव्य ते सति | १ रसनेन्द्रियं । २ प्रसिद्धः । ३ गृहते प्र०। ४ व्यञ्जनावग्रहस्य प्राणापानपृथक्त्वमानत्वात् उत्कर्षतः चिन्त्यमिदम् । नया । सर्वात्मना रसा ||६॥ जघन्यताविणादीनि जान SadSODOASAJASO200000202000 Inn Ed m ational For Private Personel Use Only Jwww.jaine crary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy