SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ लोक द्रव्य. ३ सर्गः ॥ ३६ ॥ ४ घ्राणं च काहलाकृति । जिह्वा क्षुरप्राकारा स्यात्, स्पर्शनं विविधाकृति ॥७३॥ स्पर्शनेन्द्रियनिर्वृत्तौ बाह्याभ्यन्त|रयोर्न भित् । तथैव प्रतिपत्तव्यमुक्तत्वात्पूर्वसूरिभिः ॥ ७४ ॥ बाह्यनिर्वृत्तीन्द्रियस्य, खगेनोपमितस्य या । धारोपमान्तर्निर्वृत्तिरत्यच्छपुद्गलात्मिका ॥ ७५ ॥ तस्याः शक्तिविशेषो यः खीयखीयार्थबोधकः । उक्तं तदेवोपकरणेन्द्रियं तीर्थपार्थिवैः ॥ ७६ ॥ युग्मं । तदुक्तं प्रज्ञापनावृत्तौ - उपकरणं - खड्ग स्थानीयाया बाह्यनिर्वृत्तेर्या खड्गधारासमाना स्वच्छतरपुद्गलसमूहात्मिका अभ्यन्तरा निर्वृत्तिस्तस्याः शक्तिविशेष इति । आचारांगवृत्तौ तु निर्वर्त्यत इति निर्वृत्तिः, केन निर्वर्त्यते ?, कर्मणाः तत्रोत्सेधाङ्गुला संख्येय भागप्रमितानां शुद्धानामात्मप्रदेशानां प्रतिनियतचक्षुरादीन्द्रिय संस्थानेनावस्थितानां या वृत्तिरभ्यन्तरा निर्वृत्तिस्तेष्वेवात्मप्रदेशेष्विन्द्रियव्यपदेशभाग यः प्रतिनियत संस्थानो निर्माणनाम्ना पुद्गलविपाकिना वर्द्धकी संस्थानी येनारचितः कर्णशष्कुल्यादिविशेषः, अङ्गोपाङ्गनाम्ना तु निष्पादित इति बाह्यनिर्वृत्तिः, तस्या एव निर्वृत्तेर्द्विरूपाया येनोपकारः क्रियते तदुपकरणं, तचेन्द्रिय कार्य, सत्यामपि निर्वृत्तावनुपहतायामपि मसूराद्याकृतिरूपायां निर्वृत्तौ तस्योपघातान्न पश्यति, तदपि निर्वृत्तिवद् द्विधेति । एवं च प्रज्ञापनावृत्त्यभिप्रायेण खच्छतरपुद्गलात्मिका अभ्यन्तर निर्वृत्तिः, प्रथमाङ्गवृत्त्यभिप्रायेण तु १ अङ्गुलासंख्यभागमानत्वेन सर्वत्वग्गत्वेन च भेदस्या लक्ष्यत्वमिति । २ खड्गधारयोरिवाभेदापत्तिरभ्यन्तर बहिर्निर्वृत्योरेवं न च द्वैविध्यमुपकरणस्य । ३ रचितुमारब्धः । ४ समापितः । Jain Education national For Private & Personal Use Only इन्द्रियाणि २२ १५ २० २३ ॥ ३६ ॥ jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy