________________
कर्त्तव्यमित्यागामिनमाचया ॥ ५९॥ तथा विचिन्त्येष्टानिष्टच्छायातपादिवस्तुषु । द्वितीयया खसौख्यार्थं स्यात्प्रवृत्तिनिवृत्तिमान् ॥ ६० ॥ भवेत्सम्यग्दृशामेव, दृष्टिवादोपदेशिकी । एतामपेक्ष्य सर्वेऽपि, मिथ्यादृशो ह्यसंज्ञिनः ॥ ६१ ॥ सुरनारकगर्भोत्थजीवानां दीर्घकालिकी । संमूर्तिमान्तद्वयक्षादिजी वानां हेतुवादिकी ॥ ६२ ॥ छद्मस्थसम्यग्दृष्टीनां श्रुतज्ञानात्मिकाऽन्तिमा । मतिव्यापार निर्मुक्ताः, संज्ञातीता जिना: समे ॥ ६३ ॥ इति संज्ञा ॥ २१ ॥ इदुः स्यात्परमैश्वर्ये, धातोरस्य प्रयोगतः । इन्दनात्परमैश्वर्यादिन्द्र आत्माऽभिधीयते ॥ ६४ ॥ तस्य लिङ्गं तेन सृष्टमितीन्द्रियमुदीर्यते । श्रोत्रादि पञ्चधा तच्च तथाह्युवाच भाष्यकृत् ॥ ६५ ॥ इन्दो जीवो सवोवलद्धिभोगपरमेसरतणओ । सोत्ताइ भेयमिंदियमिहू तल्लिंगाहभावाओ ॥ ६६ ॥ श्रोत्राक्षिघाणरसनस्पर्शनानीति पञ्चधा । तान्येकैकं द्विभेदं तद्, द्रव्यभावविभेदतः ॥ ६७ ॥ तत्र निर्वृत्तिरूपं स्यात्तथोपकरणात्मकम् । द्रव्येन्द्रियमिति द्वेधा, तत्र निर्वृत्तिराकृतिः ॥ ६८ ॥ साऽपि बाह्यान्तरङ्गा च, बाह्या तु स्फुटमीक्ष्यते । प्रतिजाति पृथग्रूपा, श्रोत्रपर्पटिकादिका ॥ ६९ ॥ नानात्वान्नोपदेष्टुं सा, शक्या नियतरूपतः । नानाकृतीनीन्द्रियाणि यतो वाजिनरादिषु ॥७०॥ अभ्यन्तरा तु निर्वृत्तिः, समाना सर्वजातिषु । उक्तं संस्थान नैयत्यमेनामेवाधिकृत्य च ॥ ७१ ॥ तथाहिश्रोत्रं कदम्बपुष्पाभमांसैकगोलकात्मकम्। मसूरधान्यतुल्या स्याच्चक्षुषोऽन्तर्गताकृतिः॥७२॥ अतिमुक्तकपुष्पाभं, १ दृष्टिर्दर्शनं - सम्यक्त्वादि वदनं वादः दृष्टीनां वादो दृष्टिवादस्तदुपदेशेन तदपेक्षयेत्यर्थः, संज्ञा सम्यग्ज्ञानं तदस्यास्तीति संज्ञी सम्यग्दृष्टिस्तस्य यत् श्रुतं तत्सम्यग्दृष्टिश्रुतं सम्यक् श्रुतमिति भावार्थ : ( इति मलयगिरिपादाः ) । २ सर्वे ।
Jain Educational
For Private & Personal Use Only
१०
१२
www.jainelibrary.org