________________
वृत्तौ-"कषायसहवर्तित्वात् , कषायप्रेरणादपि । हास्यादिनवकस्योक्ता, नोकषायकषायता ॥४०॥ हासो रत्यरति तिर्जुगुप्सा शोक एव च । पुंस्त्रीक्लीवाभिधा वेदाः,नोकषाया अमी मताः॥४१॥ इति कषायाः २०॥संज्ञा स्याद् ज्ञानरूपैका, द्वितीयाऽनुभवात्मिका। तत्राद्या पञ्चधा ज्ञानमन्या च स्यात्वरूपतः॥४२॥ असातवेदनीयादिकर्मोदयसमुद्भवा । आहारादिपरीणामभेदात्सा च चतुर्विधा ॥४३॥ तथाहु:-"चत्तारि सण्णाओ पण्णत्ताओ, तंजहा-आहारसण्णा, भयसण्णा मेहुणसण्णा परिग्गहसण्णा इति स्थानाङ्गे। आहारे योऽभिलाषः स्याजन्तोः क्षुबेदनीयतः। आहारसंज्ञासा ज्ञेया,शेषाः स्युर्मोहनीयजाः॥४४॥ भयसंज्ञा भयं त्रासरूपं यदनुभूयते । मैथुनेच्छात्मिका वेदोदयजा मैथुनाभिधा॥४॥स्यात्परिग्रहसंज्ञा च, लोभोदयसमुद्भवा । अनाभोगाऽव्यक्तरूपा, एता-1 श्चैकेन्द्रियाङ्गिनाम् ॥४६॥ भगवतीसप्तमशतकाष्टमोद्देशके तु-आहारभयपरिग्गहमेहुण तह कोह माण माया य।। लोभोलोगो ओहो,सन्ना दस सवजीवाणं॥४७॥एताश्च वृक्षोपलक्षणेन सर्वैकेन्द्रियाणां साक्षादेवं दर्शिता, तद्यथारुक्खाण जलाहारो, संकोअणिआ भएण संकुयइ । निअतंतुएहिं वेढइ, वल्ली रुक्खे परिगहेण ॥४८॥ इत्थिपरिरंभणेणं,कुरुबगतरुणो फलंति मेहुणे (पणे)।तह कोकनदस्स कंदे, हुंकारे मुअइ कोहेणं॥४९॥माणे झरइ रुअंती, छायद वल्ली फलाई मायाए । लोभे बिल्लपलासा,खिवंति मूले निहाणुवरि ॥५०॥ रयणीए संकोओ, कमलाणं होइ लोगसन्नाए । ओहे चइत्तु मग्गं, चडंति रुक्खेसु वल्लीओ॥५१॥ अन्यैरपि वृक्षाणां मैथुनसंज्ञाऽभिधीयते, तथोक्तं शृंगारतिलके-सुभग ! कुरुबकस्त्वं नो किमालिङ्गनोत्कः,किमु मुखमदिरेच्छुः केसरो नो हृदिस्थः । त्वयि
JainEducatane
For Private
Personal Use Only