________________
इति ॥१३॥ एतल्लक्षणानि च श्रीहेमचन्द्रसूरिभिरित्थमूचिरे-“ पक्ष संज्वलनः प्रत्याख्यानो मासचतुष्टयम् । अप्रत्याख्यानको वर्ष, जन्मानन्तानुबन्धिकः॥१४॥ वीतरागयतिश्राद्धसम्यग्दृष्टित्वघातकाः। ते देवत्वमनुष्यत्वतिर्यक्त्वनरकप्रदाः॥१५॥ प्रज्ञापनावृत्तौ च "अनन्तान्यनुबध्नन्ति, यतो जन्मानि भूलये । तेनानन्तानुबन्ध्याख्या, क्रोधायेषु नियोजिता ॥१६॥" एषां 'संयोजना' इति द्वितीयमपि नाम । संयोजयन्ति यन्नरमनतसंख्यैर्भवैः कषायास्ते । संयोजनताऽनन्तानुबन्धिता वाऽप्यतस्तेषाम् ॥ १७॥ नाल्पमप्युल्लसेदेषां, प्रत्याख्यानमिहोदयात् । अप्रत्याख्यानसंज्ञाऽतो, द्वितीयेषु निवेशिता ॥१८॥ सर्वसावद्यविरतिः, प्रत्याख्यानमिहोदितम् । तदावरणतः संज्ञा, सा तृतीयेषु योजिता ॥ १९॥ संज्वलयन्ति यतिं यत्संविग्नं सर्वपापविरतमपि । तस्मासंज्वलना इत्यप्रशमकरा निरुच्यन्ते ॥२०॥ अन्यत्राप्युक्तं-"शब्दादीन् विषयान् प्राप्य, संज्वलन्ति यतो मुहुः । ततः संज्वलनाहानं, चतुर्थानामिहोच्यते ॥२१॥" स्युः प्रत्येकं चतुर्भेदा, भेदाः संज्वलनादयः । एवं षोडशधैकैकश्चतुःषष्टिविधा इति ॥२२॥ यथा कदाचिच्छिष्टोऽपि, क्रोधायोति दुष्टताम् । एवं संज्वलनोऽप्येति, काप्यनन्तानुबन्धिताम् ॥२३॥ एवं सर्वेष्वपि भाव्यं । तत एवोपपद्येतानन्तानुबन्धिभाविनी । कृष्णादेवुर्गतिनं ,क्षीणानन्तानुबन्धिनः ॥२४॥ एवं च-वर्षावस्थायिमानस्य, श्रीबाहुबलिनो मुनेः। कैवल्यहेतुश्चारित्रं,ज्ञेयं संज्वलनो
१ यावज्जीवादिः कालो नरकादिका गतिश्चानन्तानुबन्ध्यादोनां फरुसवयणेणेत्यादिवब्यवहारात्, तेन न बाहुबलिनो मानेऽन्येषां चाकर्षादौ मिथ्यात्विना अवयकोत्पादे च क्षतिरिति देवेन्द्रसूरिपादाः ।
Jain Educ
a
tional
For Private Personal Use Only
O
ww.jainelibrary.org
SI